श्री श्री माधवदेवः असमीया- जातीय- जीवनस्य पुरोधाः
असमीया-जातीय-जीवनस्य संस्कृत्याः च मूलाधार- निर्माता, असमीया-साहित्यस्य अन्यतमः स्रष्टा, नववैष्णवधर्मस्य एकान्तसाधकः, महापुरुष- शङ्करदेवेन सह समभावेन संलग्नः सज्जनः हि महापुरुषः माधवदेवः इति नाम्ना प्रसिद्धः, सुस्मरणीयश्च। महापुरुषः माधवदेवः बहुधा गीतम्, नाटकम्, भक्तितत्त्वमूलकम् इत्यादिविषये नानाग्रन्थान् विरचय्य असमीयासाहित्यम् इतोऽपि समृद्धं कृतवान्, अपि च साहित्यक्षेत्राय एकां नूतनगतिं प्रदत्तवान् अस्ति। भारतस्य पूर्वाञ्चलप्रान्ते नववैष्णवधर्मस्य प्रचारप्रसारकार्ये माधवदेवस्य अतिविशिष्टा भूमिका अवर्तत।
महाभागस्य १४८९ तमे ख्रिष्टाब्दे, असमराज्यान्तर्गतस्य ‘नारायणपुर’ इति क्षेत्रस्य ‘लेतेकुपुखुरीपार’ इति स्थाने जन्म जातमासीत्। माधवदेवस्य पिता- गोविन्दगिरिः, माता – मनोरमा च इति नामधेयौ तस्य सुशीलौ पितरौ आस्ताम्। तस्य शैशवकालः हरिसिंहवरा-गृहे, एवं घाघरमाजेः आश्रये अतिवाहितः। तदनन्तरं पित्रा सह वण्डुकास्थितं प्राक्तनं गृहं प्रत्यागतवान्। तत्र चतुर्दशवर्षीयस्य तस्य अध्ययनार्थं राजेन्द्राध्यापकस्य संस्कृतटोले नामपञ्जीकरणं जातम्। तस्यां शालायां सम्यक् अधीत्य सः स्वल्पसमयावधौ हि सुशिक्षाम् आसादितवान् आसीत्। यदा सः पितृविहीनः जातः, तदा मण्डुकां परित्यज्य माजुल्यभिमुखं स्थानान्तरितः अभवत्। तत्र आत्मीयस्य रामदासस्य साहाय्येन तस्य महापुरुष-शङ्करदेवेन सह परिचयः अभूत्। माधव-शङ्करयोः मध्ये देवीपूजा, बलिविधानम् इत्यादिविषयम् अनुसृत्य नानायुक्तितर्कादिकं समुत्पन्नम् आसीत्, परम् अन्ते माधवदेवः तद्विषये पराजितोऽभवत्। ततः सः शङ्करदेवस्य शरणापन्नः जातः, नववैष्णवधर्मस्य गुरुरूपेण तम् अङ्गीकृतवान्। तत्पश्चात् शङ्करदेवेन सहैव सः नववैष्णवधर्मविषयकः परमसाधकः प्रचारकश्च सञ्जातः।
माधवदेवः प्रसिद्धः कविः, नाट्यकारः, गीतिकारः, धर्मप्रचारकः, सुगायकश्च आसीत्। तस्य महाभागस्य साहित्यक्षेत्रे एकं स्वकीयं वैशिष्ट्यं विराजमानम् अस्ति। तेन रचितेन नाट्यमाध्यमेन वैष्णवधर्मस्य महिमा प्रचारितः दृश्यते। तस्य मनः श्रीकृष्णस्य शिशुरूपं प्रति अत्यन्तम् आकृष्टम् आसीत्। तस्मात् तस्य गीतेषु विशेषतः बालरूपस्य श्रीकृष्णस्य नानाचौर्यकार्यम्, चाञ्चल्यम्, चातुर्यादिकं प्रकाशितम् अवलोक्यते। रामायणस्यापि सः आदिकाण्डस्य हि भाष्यं कृतवान् अस्ति। अनेन सः श्रीरामस्य बाल्यकालस्य नानाचरित्रं स्वेच्छया वर्णयितुम् अशक्नोत्। तस्य नाटकम्, गीतम् इत्यादिकं प्रायशः वात्सल्यरसेन परिपुष्टं वर्तते। तस्य गीतानि महाराष्ट्रस्य तुकारामस्य, एवम् उत्तरभारतस्य सुरदासस्य गीतैः सह तोलयितुं शक्यानि।
तेन विरचितानि नाटकानि एवं सन्ति- ‘चोरधरा’, ‘पिम्परा गुचोवा’, ‘भोजन विहार’, भूमि लेटोवा’, ‘अर्जुन भञ्जन’, तदुपरि ‘रासझुमुरा’, ‘कोटोरा खेला’, ‘ब्रह्ममोहन’, ‘भूषण हरण’ इत्यादीनि।
आख्यानमूलकरचनाः- रामायणम् आधृत्य ‘आदिकाण्ड’, भागवतञ्च अनुसृत्य ‘राजसूयकाव्य’ चेति।
तत्त्वमूलकरचनाः-
‘जन्मरहस्य’, ‘भक्ति रत्नावली’, ‘नाम मालिका’, ‘नामघोषा’ चेति। माधवदेवस्य सर्वोत्तमा, प्रसिद्धा च कृतिरेव- ‘नामघोषा’ इति।
गीतम्- माधवदेवस्य ‘वरगीत’, ‘भटिमा’ इत्यादिकी असमीया-गीतिसाहित्यस्य काचित् अमूल्यसम्पत्। ‘वरगीतम्’ इत्यस्य उदाहरणत्वेन चरणद्वयम् अत्र प्रस्तूयते-
“तेजरे कमलापति परभात निन्द ।
तेरि चान्द मुख पेखो उठरे गोविन्द ।।”
“याहेर चरन रेणु योगी नापाइ ।
भकति बले ताको बन्धन कराइ ।।” इति ।
माधवदेवः शङ्करदेवस्य सान्निध्ये आगमनान्तरम् एकनिष्ठतया धर्मचर्चायाम् आत्मनियोजनं कृतवान्। अनन्तरं कोचराज्ञः कामरूपम् आगत्य ‘गनककुछि’ इति स्थाने स्वकीयं गृहं निर्माय, तत्रैव उषित्वा शङ्करदेवेन सह धर्मचर्चायां निमग्नः जातः। तत्पश्चात् कानिचन दिनानि यावत् ताभ्यां तीर्थस्थानम् अटितम्। अन्ते १५९६ ख्रिष्टाब्दे भाद्रमासस्य शुक्लद्वितीयातिथौ सप्तोत्तरशते वयसि महापुरुषः माधवदेवः महाप्रयाणं सृतवान्। धन्यास्ते महापुरुषाः लोके! इति, शुभम्।
लेखकः- नारदोपाध्यायः