दुर्योधनः वनवासप्राप्तानां पाण्डवानां अपमानार्थं योजना कृतवान् । सः कर्णशकुनी इत्यादिभिः,पत्नीभिः सह वनम् अगच्छत्। एकदा दुर्योधनः तै: सह सरसि स्नानं करोति स्म तस्मिन्नेव समये चित्रसेनः नामक: गन्धर्वराजः अपि सरोवरस्य तटे स्थितः आसीत् । दुर्योधनः तस्मिन् पार्श्वे भूमिं स्वच्छं कर्तुं स्वपुरुषान् प्रेषितवान्, परन्तु चित्रसेनः तान् तर्जयित्वा तान् निष्कासितवान्, दुर्योधनः अन्यान् सैनिकान् प्रेषितवान्, परन्तु चित्रसेनः तान् अपि निष्कासितवान्। कर्णं शकुनिं च गृहीत्वा दुर्योधनः गन्धर्वस्य पुरतः आगतवान् । चित्रसेन: तदा स्नानं कुर्वन् आसीत् । क्रुद्धेन तेन कौरवसेनायाः उपरि बाणवृष्टि: आरब्धा । ततः सम्मोहनशस्त्रं प्रयुज्य कर्णस्य रथं छित्त्वा दुर्योधनं पाशे बद्ध्वा कौरवाणां महिषय: गृहीत्वा स्वर्गं प्रति प्रचलितः।
तदा तु सर्वाभिः कौरवपत्नीभि: भीमं अर्जुनं युधिष्ठिरं च साहायतार्थम् आहूता: | तस्मिन् एव काले दुर्योधनस्य मन्त्री अपि आगत्य कौरवानां दुर्दशां युधिष्ठिरं प्रति वर्णयित्वा साहाय्यं याचितवान् । भीमः प्रसन्नः आसीत्, परन्तु युधिष्ठिरः अवदत् यत् एषः अस्माकं प्रतिष्ठायाः प्रश्नः अस्ति। तस्य निर्देशानुसारं भीमः अर्जुनः च चित्रसेनेन सह युद्धं कृत्वा चित्रसेनं महाकर्षणशस्त्रस्य साहाय्येन आकाशात् अवतरितुं बाध्यौ अभवताम् । भीमः दुर्योधनं रथात् स्त्रीभिः सह अवतारयत् | चित्रसेन: अर्जुन: च मित्रवत मिलितौ। दुर्योधनः अतीव लज्जितः अभवत् । सः धर्मराजं प्रणम्य स्वराजधानीम् प्रति समागत: ।
कर्ण– शकुनि–दुर्योधनादीनां गर्व हरणम्
नमस्कार मित्राणि! अहमस्मि डॉ.अमनदीपशर्मा। अहं हिमाचलप्रदेशस्य शिक्षाविभागे संस्कृतशिक्षकोऽस्मि। कांगड़ा जनपदस्य कस्बाकोटला (भटेड़) इत्याख्ये ग्रामे अहं वसामि, किञ्च स्वग्रामात् एव संस्कृतस्य प्रचारप्रसारकार्यं मया क्रियते। अधुना शैक्षणिकसंस्थासु आधुनिकभाषारूपेण संस्कृतस्य प्रचारः भवेत्, एतदर्थम् अहम् हिमसंस्कृतवार्ताः, संस्कृतगुरु 24 इत्यनयोः प्रकल्पयोः माध्यमेन कार्यं कुर्वन्नस्मि। यदि भवन्तः मदीयेन कार्येण सन्तुष्टा तर्हि अस्माकं सहयोगं कुर्वन्तु , अस्माकं संस्कृतप्रसारस्य ये प्रकल्पाः लोके प्रचलन्ति तान् सर्वत्र प्रसारयन्तु। अस्माकं कृते आनन्दस्य विषयः यत् हिमसंस्कृतवार्ता संस्कृतपत्रकारितायाः विषये हिमाचलप्रदेशस्य प्रथमः प्रकल्पः इदानीम् आविश्वे कीर्तिम् प्राप्नोति।
Leave a comment