गृहमंत्रालयेन भारतीय- सांगणिक- अपराध- समन्वय- केंद्र- पदक्षेपस्य अंतर्गतं संगठित- निवेश- कार्याधारितायां अंशकालिक- वृत्यवसर- प्रवंचनायां समाविष्टानां शताधिकानां वेबफलकानाम् अभिज्ञानं कृत्वा तेषाञ्च प्रतिबन्धं कृतम्। मंत्रालयेन एकस्मिन् आधिकारिक- विज्ञप्तौ उक्तं यत् एतानि वेबफ़लकानि संगठित- अवैध- निवेश- सम्बद्ध- आपराधिक- प्रकरणानि पोषयन्ति। मंत्रालयः संसूचितावान् यत् एतानि वेबफ़लकानि वैदेशिक-कलाकारैः संचाल्यते। एतस्मिन् प्रकरणे प्रपत्र अन्तर्जालस्य कृप्टोमुद्रायाः इत्यादीनां उपयोगः भवति स्म। अपि च बृहत्तमे स्तरे आर्थिकवञ्चनात् प्राप्तस्य आयस्य प्रयोगः भारतात् बहिः क्रियते स्म। नेशनल- साइबर- क्राइम- थ्रेट- एनालिटिक्स- यूनिट इत्यनेन विगत सप्ताहे एतस्मिन् प्रकरणे कार्याचरणं विहितम्। मंत्रालयेन नागरिकैः आग्रहः कृतः यत्ते प्रयुक्ताः दूरभाष संख्याः राष्ट्रीय- साइबर- अपराध- रिपोर्टिंग- पटले प्रतिवेदनम् कुर्वन्तु।
गृहमन्त्रालयेन शताधिकाः वंचनकार्ये संलिप्ताः अन्तर्जालपुटकाः प्रतिबन्धिताः
नमस्कार मित्राणि! अहमस्मि डॉ.अमनदीपशर्मा। अहं हिमाचलप्रदेशस्य शिक्षाविभागे संस्कृतशिक्षकोऽस्मि। कांगड़ा जनपदस्य कस्बाकोटला (भटेड़) इत्याख्ये ग्रामे अहं वसामि, किञ्च स्वग्रामात् एव संस्कृतस्य प्रचारप्रसारकार्यं मया क्रियते। अधुना शैक्षणिकसंस्थासु आधुनिकभाषारूपेण संस्कृतस्य प्रचारः भवेत्, एतदर्थम् अहम् हिमसंस्कृतवार्ताः, संस्कृतगुरु 24 इत्यनयोः प्रकल्पयोः माध्यमेन कार्यं कुर्वन्नस्मि। यदि भवन्तः मदीयेन कार्येण सन्तुष्टा तर्हि अस्माकं सहयोगं कुर्वन्तु , अस्माकं संस्कृतप्रसारस्य ये प्रकल्पाः लोके प्रचलन्ति तान् सर्वत्र प्रसारयन्तु। अस्माकं कृते आनन्दस्य विषयः यत् हिमसंस्कृतवार्ता संस्कृतपत्रकारितायाः विषये हिमाचलप्रदेशस्य प्रथमः प्रकल्पः इदानीम् आविश्वे कीर्तिम् प्राप्नोति।
Leave a comment