क्यार्टू-विद्यालये संस्कृतसम्भाषणशिबिरस्य समापनम्
शिमलाग्रामीणजनपदस्य राजकीय-वरिष्ठ-माध्यमिक-पाठशाला क्यार्टू इत्यत्र संस्कृतभारत्या: विद्यालयस्य च संयुक्तायासेन संस्कृतसम्भाषणशिबिरं सञ्चालितम् । शिमलाग्रामीणजनपदमन्त्री डॉ.सन्तोषकुमार: अकथयत् यत् इदं सम्भाषणशिबिरं जुलाई-मासस्य अष्टमदिनाङ्कत: आरभ्य विंशतिदिनाङ्कपर्यन्तं प्राचलत् । ललिता, रीतिका चास्य शिबिरस्य चालिके आस्ताम् । ये पूर्वसिद्धतापूर्वकं सोत्साहं सश्रमं च शिबिरबिन्दून् पाठितवत्यौ । शिबिरे अस्मिन् विद्यालयस्य ४० विद्यार्थिन: संस्कृतसम्भाषणस्य शिक्षणं प्राप्नुवन्, येषु १८ बालिका:, २२ बालका: आसन् । दीपप्रज्ज्वालनेन प्रारब्धस्य सम्भाषणशिबिरस्य समापनकार्यक्रमस्य अध्यक्षतां विद्यालयस्य उपप्रधानाचार्य: श्रीमान् देशराजचौहानमहोदय: अकरोत् । तत्र मुख्यातिथि: डॉ.मोहनलालमहोदय:, सारस्वतातिथि: श्रीमान् दिनेशमहोदय:, मुख्यवक्ता च श्रीमान् नवल-किशोरमहोदय: आसीत् । अनुभवकथनं दिया सुजलश्च कृतवन्तौ । शिबिरार्थिषु सेजल-नामक-बालिका सप्तमविभक्तिं पाठितवती । शिबिरं सम्यक्तया चालयितुं सर्वविधव्यवस्थां श्रीमान् देशराजचौहानवर्य: अकरोत् । छात्रा: अनेकविधसांस्कृतिककार्यक्रमान् कृतवन्त: । कार्यक्रमे विद्यालयस्य अनेके शिक्षका:, शिक्षिका:, छात्राश्चोपस्थिता: आसन् ।
क्यार्टू-विद्यालये संस्कृतसम्भाषणशिबिरस्य समापनम्
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
