PWD Minister : अधिकारिभिः विकासात्मककार्याणां भवतु प्रगति:, गुणवत्तायाः अवलोकनार्थं नियमितं निरीक्षणं भवेत् विक्रमादित्यसिंह:
हिमसंस्कृतवार्ता- शिमला।
लोकनिर्माणमन्त्री विक्रमादित्यसिंहस्य अध्यक्षतायां विभागाधिकारिभिः सह राज्ये प्रधानमन्त्री- ग्रामसड़कयोजना, नाबार्डस्य च अन्तर्गतं क्रियमाणानां विकासात्मककार्याणां समीक्षां सभा आयोजिता। विक्रमादित्यसिंह: प्रधानमन्त्री ग्रामसड़कयोजना-१ तथा २ इत्यस्य सर्वाणि कार्याणि जून २०२४ यावत् सम्पन्नं कर्तुम् अधिकारिभ्यः निर्देशं दत्तवान्। सः अवदत् यत् नाबार्ड २४ तथा २५ भागानां कार्याणां भौतिकवित्तीयदावानाम् औपचारिकता २०२४ तमस्य वर्षस्य जूनमासपर्यन्तं सम्पन्नं भवितुमर्हति येन एतानि कार्याणि शीघ्रमेव आरभ्यन्ते।
लोकनिर्माणमन्त्री अस्य सप्ताहस्य अन्ते यावत् नाबार्ड भाग-२९ तथा प्रधानमन्त्री ग्रामसड़कयोजना भाग-३ कार्याणि आरभ्य अनुमोदनपत्राणि निर्गन्तुं निर्देशं दत्तवान्। सः अवदत् यत् राज्ये कार्यान्वितानां सर्वासां विकासात्मकानां परियोजनानां प्रत्येकस्मिन् स्तरे नियमितरूपेण निरीक्षणं करणीयम्, तस्य प्रतिवेदनं मुख्य-अभियन्तु: समक्षं प्रस्तोतव्यम्। सः अधिकारिभ्यः निर्देशं दत्तवान् यत् सर्वाणि निर्माणकार्याणि निर्धारितसमयान्तरे सम्पन्नानि करणीयाणि निर्माणकार्यं विलम्बं कुर्वन्तः निविदाकर्तार: तेषां विरुद्धं कठोरकार्याणि करणीयाणि।
सः अवदत् यत् कार्यकारी अभियंतास्तरस्य एफआरए-एफसीए-सम्बद्धानि अनुमोदनानि ग्रहीतुं प्रक्रियां शीघ्रं करणीयम्, निर्माणकार्येषु गुणवत्तायाः पालनं करणीयम्।