HP Vidhansabha : विधायकेभ्य: आवासद्वयं प्रदानस्य नियमाः परिवर्तिताः
हिमसंस्कृतवार्ता:- शिमला।
हिमाचलविधानसभया विधायकानां कृते आबंटितानां निवासनियमानां परिवर्तनं कृतम्। एतत् परिवर्तनं CAG इत्यस्मात् लेखापरीक्षा आक्षेपं दूरीकर्तुं कृतम् अस्ति। एषा अधिसूचना विधानसभासभापतिना जूनमासस्य ३ दिनाङ्के प्रसारिता अस्ति, या बुधवासरे राजपत्रे प्रकाशिता। अस्य अनुसारं विधानसभायाः हिमाचलप्रदेश- विधानसभासदस्यनियमा-२००२ इत्यस्य नियम- ३ संशोधनं कृतम्। तत्र उक्तं यत् सामान्यतया विधायकाय केवलमेकं निवासस्थानं आबंटितं भविष्यति, परन्तु एकवारादधिकं विजेतारं विधायकम् उपलब्धतायाः अनुसारम् आवासद्वयं दातुं शक्यते। ज्ञातव्यं यत् विगतेषु वर्षेषु वरिष्ठविधायकानां कृते आवासद्वयं दातुं प्रथा प्रचलति स्म, यद्यपि नियमेषु एतस्य कोऽपि प्रावधानम् नासीत्। कैग-इत्यस्य लेखापरीक्षा आक्षेपस्य अनन्तरं हिमाचलविधानसभायाः २६ विधायकानाम् अथवा पूर्वविधायकानां कृते प्रायः १.५ कोटिरूप्यकाणां पुनराप्तिसूचना निर्गता अस्ति।
एते सर्वे माननीयाः जनाः अनाधिकृतरूपेण विधानसभा परिसरे आवासद्वयं स्थापितवन्तः आसन् । एषा प्रथा प्रायः ३० वर्षाणि यावत् प्रचलति स्म। १३ तमाया: विधानसभायाः कार्यकाले पूर्वजयरामसर्वकारस्य कार्यकाले कैग इत्यनेन स्वस्य लेखापरीक्षायां एतत् दोषं गृहीतम्। तदनन्तरं विधानसभासचिवस्य समीपं कार्यविधिं कर्तुं प्रेषितः। लेखापरीक्षायाः आक्षेपस्य अनन्तरं कतिपयेभ्यः मासेभ्यः पूर्वं विधानसभासचिवः यशपालशर्मा इत्यनेन पुनराप्तिसूचनाः निर्गताः आसन्। एताः सूचनाः २०२४ तमस्य वर्षस्य अप्रैलमासे दत्ताः सन्ति, यस्मिन् एकस्मात् विधायकात् औसतेन प्रायः नवलक्षरूप्यकाणां पुनराप्ति: क्रियते। एषा राशिः सम्पत्तिनिदेशालये नगदरूपेण अथवा तेषां वित्तकोषसंख्यायां निक्षेपं कर्तुं प्रार्थितम् आसीत् तथा च तस्याः रसीदं विधानसभासचिवालयाय दातुं कथितमासीत्। एतां सूचनां प्राप्तानां विधायकानाम् अथवा पूर्वविधायकानां मध्ये बहूनि बृहत्नामानि अपि समाविष्टानि सन्ति। परिवर्तिताः नियमाः एतत् पुनर्प्राप्तिसूचनं न प्रभावितं करिष्यन्ति। एते नियमाः आगामिदिनात् आरभ्य प्रवर्तन्ते। सम्भवति यत् पुरातनं पुनर्प्राप्तिः क्षन्तुं राज्यसर्वकारस्य मन्त्रिमण्डलं प्रति प्रकरणं प्रेषयितुं शक्यते।