HP Weather : शिमलासहितेषु हिमाचलस्य अनेकेषु जनपदेषु मेघवर्षणम्, अश्मपाताः च अभवन्
हिमसंस्कृतवार्ता – शिमला।
हिमाचलप्रदेशस्य अनेकेषु भागेषु ऋतौ परिवर्तनं जातम्। बुधवासरे अपराह्ने कुल्लुनगरे प्रचण्डवृष्टिः अभवत्। अत्यधिकवृष्ट्या तापमानस्य न्यूनता ज्ञाता। वर्षाकारणात् जनाः उष्णतायाः किञ्चित् विश्रान्तिं प्राप्तवन्तः। तत्सह शिमलामण्डलस्य अपि अनेकेषु भागेषु वर्षा अभवत्। चौपालस्य थरोचक्षेत्रे अश्मपातेन सह वर्षा अभवत्। ऋतुपरिवर्तिता, बुधवासरे सायं ५:२० वादनस्य अनन्तरं राजधानी शिमलानगरे वर्षा आरब्धा। मण्डलमुख्यालयस्य चम्बानगरे अपराह्ने २:०० वादने लघुवृष्ट्या जनै: तप्ततापात् संबलं प्राप्तम्।
काङ्गरामण्डलस्य अनेकेषु भागेषु वातचक्रस्य अनन्तरं वर्षा, लघु- ओलावृष्टिः च अभवत्। सायंकाले सोलनमण्डले अपि वर्षा अभवत्। ऋतुविज्ञानकेन्द्रशिमलाया: अनुसारम् बुधवासरे राज्यस्य अनेकेषु भागेषु वर्षा भविष्यति इत्यानुमानमासीत्। गतदिवसाद् त्रिदिवसं यावत् केषुचित् भागेषु अश्मपातस्य पीत-सचेतना अपि निर्गता अस्ति। राज्यस्य अनेकेषु भागेषु जूनमासस्य ८ दिनाङ्कपर्यन्तं वर्षा भवितुं शक्नोति। ९ जूनतः सम्पूर्णे राज्ये ऋतु: स्वच्छा एव भवितुं शक्यते।
कुत्र कियत् अधिकतमं तापमानम्
ऊना – ४२.०
नेरी – ४३.६
बिलासपुरम्- ४२.०
सुन्दरनगरम्- ३७.९
काङ्गड़ा- ३९.०
मण्डी – ३८.७
चम्बा – ३६.९
धौलाकुआं – ३९.२
बरठीं – ३९.०
बजौरा- ३७.४
डलहौजी – २८.३
रिकाङ्गपिओ – २८.५
नाहनम् – ३५.८
सोलनम् – ३३.०
शिमला – २८.८