HRTC : हमीरपुरतः चण्डीगढं यावत् द्वौ नूतनौ बसमार्गौ आरब्धौ
हिमसंस्कृतवार्ता:- कार्यालयीय: प्रतिनिधि:।
किरतपुरनेरचौकस्य चतुष्पंक्तिराजर्मार्गस्य निर्माणानन्तरं यात्रा विश्रान्तिदायिनी अभवत्। अन्तरम् अपि न्यूनीकृतम् अस्ति। अस्मिन् मार्गे यात्रीवाहनानां अभावं पूरयितुं हिमाचलपथपरिवहननिगमस्य (एचआरटीसी) बिलासपुर-आगारेन हमीरपुरतः चण्डीगढं यावत् बसमार्गद्वयं प्रारब्धम् अस्ति।
प्रथमः बसमार्गः हमीरपुरतः चण्डीगढं प्रति प्रातः ६.३० वादने प्रस्थास्यति, प्रातः १० वादने चण्डीगढं प्राप्स्यति। सायंकाले चण्डीगढतः हमीरपुरं प्रति सायं ५.१० वादने एव बसयानं प्रस्थास्यति। तदनन्तरं द्वितीयमार्गे सायं ५.१० वादने हमीरपुरतः चण्डीगढं प्रति प्रस्थास्यति, सायं ९ वादने चण्डीगढं प्राप्स्यति।
इदं बसयानं परदिने प्रातः १०.२० वादने चण्डीगढतः प्रस्थाय अपराह्ने २.२० वादने हमीरपुरं प्राप्स्यति। हिमाचलपथपरिवहननिगमस्य क्षेत्रीयप्रबन्धकः विवेकलखनपालः अवदत् यत् यात्रिकाणां सुविधायै एतौ नूतनौ मार्गौ आरब्धौ, येन जनानां कस्यापि समस्यायाः सम्मुखीकरणं कर्तव्यं न भवेत्।
बिलासपुरस्य प्राचीनतमसेतो: भविष्यति पुनर्निर्माणम्, आचारसंहितायाम् आरोपणात् कार्यं निरुद्धमासीत्
अयं सेतुः राजा अमीचन्देन १८८९ तमे वर्षे निर्मितम्। सेतुनिर्माणानन्तरं सदर, घुमारवीं झण्डुता विधानसभाक्षेत्रस्य ३५ पंचायतानां लाभः भविष्यति।
हिमसंस्कृतवार्ता- बिलासपुरम्।
शासनपरिवर्तनानन्तरं स्थगितस्य भजवानीसेतुनिर्माणप्रक्रिया आदर्शाचारसंहिताया: निष्कासनानन्तरं आरभ्यते इति संभावना वर्तते। अस्य सेतो: द्वयोः अन्तयोः निर्माणस्य मार्गस्य भूमिं प्राप्तुं मुख्य- अभियंताकार्यालयात् २ कोटि ६० लक्षं ६० सहस्ररूप्यकाणां राशिः अनुमोदिता।
यत्र अस्य सेतो: निर्माणार्थं केन्द्रसर्वकारेण २०२२ तमस्य वर्षस्य अगस्तमासस्य १० दिनाङ्के केन्द्रीय आधारभूतसंरचनाकोषात् १०३ कोटि ३१ लक्षरूप्यकाणां राशिः अनुमोदिता आसीत्, तस्य अनुमोदनं लोकनिर्माणविभागस्य प्रधानसचिवेन ३० अगस्त २०२२ दिनाङ्के दत्तम्। तदनन्तरं राज्ये विधानसभानिर्वाचनस्य आचारसंहिता प्रवर्तिता, राज्ये शासनपरिवर्तनानन्तरं प्रकरणं स्थगितम्।