प्रधानमन्त्रिणः नरेन्द्रमोदिनः द्विदिवसीया भूटानयात्रा स्थगिता
प्रधानमन्त्रिणः नरेन्द्रमोदिनः भूटानदेशस्य द्विदिनात्मकं राजकीयभ्रमणं अद्यारभ्य आसीत्, परञ्च प्रतिकूले वातवरणे वायुयानस्य उड्डयनं सफलतापूर्वकं न अभवत्, अतः एतेन कारणेन एषा यात्रा स्थगिता। ध्यातव्यमस्ति यत् अस्मिन् भ्रमणकाले प्रधानमन्त्री भूटानस्य राजा जिग्मे खेसर नामग्याल वाङ्गचुक्, भूटानस्य चतुर्थराजः जिग्मे सिङ्ग्ये वाङ्गचुक महाभागेन च मेलनम् आसीत्। भारतीय: विदेशमंत्रालय:-उक्तवान् यत् भारत: भूटानश्च नियमितरूपेण उच्चस्तरीयम् आदानप्रदानम् कुर्वन् परम्परायाः निर्वहनम् कुरुत: तथा च “नेबर फर्स्ट्” नीतौ सर्वकारेण बलं दत्तं ।
तत्र उक्तं यत्, भारतस्य भूटानस्य च अद्वितीयं स्थायित्वं परस्परम् सहयोगम् च अस्ति, यत् परस्परविश्वासः, अवगमनं, सद्भावना च आधारितम् अस्ति। परस्पराध्यात्मिकविरासतां, जनजनप्रति उष्णसम्बन्धः च असाधारणभारत-भूटान-सम्बन्धे गभीरताम्, जीवन्ततां च योजयति इत्यपि विदेशमन्त्रालयेन उक्तम्।
प्रधानमन्त्रिणः नरेन्द्रमोदिनः द्विदिवसीया भूटानयात्रा स्थगिता
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
