प्रधानमन्त्री नरेन्द्रमोदी पश्चिमबंगाल- राज्ये पञ्चदशसहस्र- कोटि- रूप्यकाणां विकासात्मक- परियोजनानाम् उद्घाटनं विहितवान्।
प्रधानमन्त्री नरेन्द्रमोदी पश्चिमबंगालराज्ये पञ्चदशसहस्र- कोटि- रूप्यकाणां विकासात्मक- परियोजनानाम् उद्घाटनं विहितवान्। उक्तवान् च यत् केन्द्रप्रशासनं विगतेभ्यः दशवर्षेभ्यः बंगालराज्ये विकासस्य अन्तरं दूरीकर्तुं प्रयासान् विहितवत्। असौ पश्चिमबंगाल- राज्यस्य नादिया- जनपदस्य कृष्णानगरे एतासां परियोजनानां शुभारम्भं कृतवान्। मोदी अत्रावसरे कथितवान् यत् केन्द्रप्रशासनं पश्चिमबंगाले आर्थिक- विकास- वृत्यवसरयोः सृजनाय गतिं प्रददाति। मोदिना निगदितं यत् असौ सप्त- सहस्र- कोटि- रूप्यकाणां परियोजनानाम् आधारशिलां संस्थापितवान्। असौ अग्रे अवदत् यत् परियोजनाः रेलमार्ग- जलपोत- स्थानक- इत्यादिभिः सम्बद्धाः सन्ति। मोदी प्रावोचत् यत् पश्चिमबंगाल- राज्यं भारत- देशस्य पूर्वीद्वारत्वेन कार्यं समाचरति। एतस्मिन् द्वारे विकासस्य प्रवेश-बिन्दोः क्षमता विद्यते। प्रशासनम् अस्मिन् क्षेत्रे मार्ग- रेल- जलमार्ग- माध्यमैः सम्पर्क- सौविध्याय मूलभूत- सौविध्यानि विकासयति। प्रधानमन्त्री पुरुलिया- जपनदस्य दामोदार- उपत्यका- निगमस्य रघुनाथपुर- ताप- विद्युत्- केन्द्रस्य द्वितीय- चरणस्य आधारशिलां संस्थापितवान्। अत्रावसरे प्रवदन् मोदी प्रोक्तवान् यत् प्रशासनं वर्तमान- भविष्योर्जा- आवश्यकताः निध्याय बंगालराज्यम् आत्मनिर्भरं निर्मातुं तस्मिन्नेव दिशि कार्यं निष्पादयति। विद्युदुर्जा एकः महत्वपूर्ण: घटको विद्यते, यः अर्थव्यवस्थायाः प्रत्येकं क्षेत्रं विकास- दिशि नयति। रघुनाथ- ताप- विद्युत्- केन्द्रस्य द्वितीय- चरणस्य इयम् आधारशिला अपि अस्मिन्नेव दिशि उत्थापितः एकः पदक्षेपो विद्यते। अनेन उपक्रमणे राज्ये एकादश- सहस्र- कोटि- रूप्यकाणां निवेशः आगमिष्यति। प्रधानमन्त्री एतदनन्तरं षड्शीत्यधिक- नवदश- शत- कोटिरूप्यकाणां व्ययेन विनिर्मिते राष्ट्रिय- राजमार्ग- द्वादश इत्याख्ये चतुष्पथस्य शतकिलोमीटरात्मकस्य फरक्का- रायगंज- खण्डस्यापि उद्घाटनं कृतवान्। प्रधानमन्त्री एतदतिरिच्य राज्येऽस्मिन् चत्वारिंशदधिक- नवशत- कोटि- रूप्यकाणां चतस्रः परियोजनाः राष्ट्राय समर्पितवान्। एताः परियोजनाः विद्यन्ते दामोदर- मोहिशिला- मार्गयोः द्विगुणीकरणं रामपुरघाट- मुराराई- इत्यनयोः मध्ये तृतीया पट्टिका आपणस्य च साउ- अजीमगंज- पट्टिकायाः द्विगुणीकरणम् इत्यादयाः। एतस्मिन् प्रधानमन्त्रिणः कार्यक्रमे पश्चिमबंगालस्य राज्यपालः डॉ. सी.वी. आनन्द बोसः राज्य- विधानसभायां विपक्षनेता सुवेन्दु-अधिकारी राज्यमन्त्री शान्तनुठाकुरः सांसदः जगन्नाथसरकारः भारतीय जनता पार्टीति दलस्य राज्याध्यक्षः सुकान्तो- मजूमदारः च उपस्थिताः आसन्।
प्रधानमन्त्रिणा पश्चिमबंगाल-राज्ये पञ्चदशसहस्र- कोटि- रूप्यकाणां विकासात्मक- परियोजनानाम् उद्घाटनम्
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment