प्रधानमन्त्रिणा नरेन्द्रमोदिना विहिता विक्रमसाराभाई अन्तरिक्षकेन्द्रस्य यात्रा
हिमसंस्कृतवार्ताः। प्रधानमन्त्रिणा नरेन्द्रमोदिना केरलराज्यस्य तिरूवनन्तपुरम् इत्यत्र विक्रमसाराभाई अन्तरिक्षकेन्द्रस्य यात्रा विहिता। अन्तरिक्ष क्षेत्रस्य प्रायः अष्टादशशतं कोट्यात्मिका त्रिसृणां महत्वपूर्णाधारभूत संरचना परियोजनानाम् उद्घाटनमपि विहितम्। अस्मिन् अवसरे प्रधानमन्त्रिणा उक्तं यत् पञ्चत्रिंशदोत्तरद्विसहस्रवर्षं यावत् भारतस्य अन्तरिक्षे स्वीय अन्तरिक्ष केन्द्रं भविष्यति येन अन्तरिक्षे अज्ञात-क्षेत्राणां अध्ययने साहाय्यं भविष्यति। श्रीमोदिना उक्तं यत् अमृतकालावधौ भारतीयान्तरिक्ष यात्रिणः अस्माकमेव प्रक्षेपयानेन एव चन्द्रमसि अवतरिष्यन्ति। प्रधानमन्त्रिणा गगनयान अभियानस्य सज्जतायाः समीक्षा अपि कृता, गगनयान अभियानस्य कृते चयनितानां चतुर्णाम् अन्तरिक्षयात्री- निर्दिष्टानां नामानि अपि प्रकाशितानि । तेषु, दलनायकः प्रशान्त बालकृष्णन नायर, दलनायकः अजीत कृष्णन, दलनायकः अंगद प्रताप, विंग कमांडर शुभंशु शुक्लः च सम्मिलिताः सन्ति। प्रधानमन्त्रिणा उक्तं यत् अन्तरिक्ष क्षेत्रे भारतस्य साफल्यं देशस्य युवसु वैज्ञानिक- दृटिकोणस्य बीजारोपणं करोति । श्रीमोदिना केरल राजस्य राज्यपालेन आरिफ मोहम्मद खानेन, मुख्यमन्त्रिणा पिनारायी इत्यनेन केन्द्रीयमन्त्रिणा बी. मुरलीधनेन सहैव विभिन्न इसरो परियोजनानां प्रदर्शिन्याः अपि अवलोकनं कृतम्। श्रीमोदिना भारतीय जनता पार्टीति दलस्य इत्यस्य राज्यशाखया आयोजितस्य तिरूवनन्तपुरम् पदयात्रा-समारोहस्य समापनावसरे जनसभामपि सम्बोधिता।
प्रधानमन्त्रिणा नरेन्द्रमोदिना विहिता विक्रमसाराभाई अन्तरिक्षकेन्द्रस्य यात्रा
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment