देशस्य श्रम-शक्ति-क्षेत्रे महिलानां सहभागिता प्रतिशतं त्रयो-विंशति-मित-तः समेध्य सप्तत्रिंशन्मिता जाता
देशस्य श्रम- शक्ति- क्षेत्रे महिलानां सहभागिता प्रतिशतं त्रयो-विंशति- मिततः समेध्य सप्तत्रिंशन्मिता जाता। श्रम- जीविका- सचिवा आरती-आहूजा प्रत्यपादयत् यत् देशे श्रमकार्येषु महिलानां सहभागिता प्रतिशतं त्रयो-विंशति- मिततः समेध्य सप्तत्रिंशन्मिता जाता अस्ति। नव- दिल्ल्यां श्रमकार्ये युव-महिलासु समनुष्ठितम् एकं राष्ट्रियं परामर्श- समुपवेशनं सम्बोधयन्ती आहूजा महिला- श्रम- कार्येषु नवीनतमस्य आवधिक- श्रम- कार्य- सर्वेक्षणस्य विवरणम् समुल्लेख्य प्रोदितवती यत् यथा-यथा देशस्य जनसङ्ख्या वर्धतेतरां, भारतेऽपि प्रतिभान्वितं, प्रेरितं, परिश्रमपरं च महिला-कार्यबलं प्रतिशतं पञ्चाशन्मितं वर्धनम् आवश्यकम् अस्ति।
देशस्य श्रम-शक्ति-क्षेत्रे महिलानां सहभागिता प्रतिशतं त्रयो-विंशति-मित-तः समेध्य सप्तत्रिंशन्मिता जाता
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment