न्यू-इंडिया इति नवीनं भारतं वर्तमान पीठिकायै आधुनिक- शिक्षा- प्रदानार्थम् अधिकादधिकं व्ययं करोति- प्रधानमन्त्री श्रीनरेन्द्रमोदी
हिमसंस्कृतवार्ताः- नरेश मलोटिया। प्रधानमन्त्री नरेन्द्रमोदी जम्वां द्वि-शताधिक त्रिंशत्- सहस्र- कोटि रूप्यकतोऽपि अधिक- मूल्ययुतानां विकास-परियोजनानां शिलान्यासम् उद्घाटनं च कृतवान्। एतासु परियोजनासु स्वास्थ्य- शिक्षा- रेल- राजमार्ग- विमानसेवा- तैल- नागरिक- अवसंरचनाभिः सहिताः नैकाः विकास-परियोजनाः समाविशन्ति। कार्यक्रमस्य अवसरे प्रधानमन्त्री जम्मूकश्मीर- सर्वकारस्य सार्धैक- सहस्र- मितेभ्यः नवनियुक्तेभ्यः प्रायशः सार्ध- सहस्र- मितेभ्यः कार्मिकेभ्यः नियुक्तिपत्राण्यपि वितरितवान्। असौ विकसितं भारतं विकसितं जम्मूक्षेत्रं चेति कार्यक्रमस्य भागत्वेन विभिन्न- प्राशासनिक- योजनानां लाभार्थिभिः समम् अपि संवादं साधितवान्। अस्मिन् अवसरे मोदी एकां विशाल जनसभामपि सम्बोधितवान्। प्रधानमन्त्री नरेन्द्रमोदी प्रावोचत् यत् न्यू-इंडिया इति नवीनं भारतं वर्तमान पीठिकायै आधुनिक- शिक्षा- प्रदानार्थम् अधिकादधिकं व्ययं करोति। विगते दशके देशे भूरि-संख्यायां विद्यालयाः, महाविद्यालयाः विश्वविद्यालयाश्च निर्मिताः सन्ति। प्रधानमन्त्री उक्तवान् यत् सर्वकारेण जम्मू कश्मीरस्य विकासाय संकल्पः कृतः अस्ति। मोदी उदैरयत् यत् प्रायः पञ्चाशन्मिताः नूतनाः “डिग्री कॉलेज” इत्याख्याः महाविद्यालयाः जम्मू-कश्मीरे अपि विरचिताः सन्ति। अमुना भणितं यत् जम्मू-कश्मीरस्य जनानां स्वप्नाः सप्ततिः वर्षेभ्यः अधुना यावत् पूर्णतोदृशा नैव साकारीभूताः, ते स्वप्नाः आगामि- कतिपयेष्वेव वर्षेषु करिष्यन्ते परिपूर्णाः। प्रधानमन्त्री उक्तवान् यत् विगतेषु दशवर्षेषु भारतं विश्वे पञ्चमी बृहत्तमी अर्थव्यवस्था सञ्जाता अस्ति। अमुना प्रोक्तं यत् यावद् अस्माकं देशस्य अधिका आर्थिकी शक्तिः भविष्यति, तावदेव जनानां कल्याणकार्येषु आधिक्येन व्ययं कर्तु वयं सक्षमाः भविष्यामः। मोदी कथितवान् यत् भारतम् अद्य निज-नागरिकानां कृते निःशुल्कं खाद्यान्नम्, निःशुल्कं स्वास्थ्य-सेवाः, आवासाः, शौचालयाः, आवश्यक-सामग्र्यः च वितरति। भारतम् आर्थिक- शक्तित्वेन विना नैतत् कर्तुं प्रभवति स्म। असौ प्रावोचत् यत् अस्माभिः अत्रैव नैव स्थातव्यम्, आगामि- पञ्चवर्षेषु विश्वे तृतीय- बृहत्तम- अर्थव्यवस्थात्वेन समुदयस्य संकल्पः अभिस्वीकरणीयः अस्ति। प्रधानमन्त्री उदैरयद् यत् जम्मू कश्मीरस्य विकासे संविधानस्य सप्तत्युत्तर- त्रि-शततमी धारा बाधा- भित्तिकात्वेन वर्तते स्म। सा विकास- बाधारूपी भित्तिकापि भारतीय- जनता- पार्टीति दलस्य सर्वकारेण अपाकृता। मोदिना प्रोक्तं यत् सम्प्रति जम्मूकश्मीरम् सन्तुलित विकासम् प्रति अग्रे वर्धते।
नवीनं भारतं वर्तमानपीठिकायै आधुनिक- शिक्षा- प्रदानार्थम् अधिकादधिकं व्ययं करोति- प्रधानमन्त्री श्रीनरेन्द्रमोदी
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment