हिमाचलस्य मुख्यमन्त्री भारतन्याययात्रायां भागं ग्रहीष्यति
मुख्यमंत्री सुखविंदरसिंहसुक्खुः राहुलगांधिनः भारत जोडो न्याययात्रायां सम्मिलितः भविष्यति। काङ्ग्रेसदलः इम्फालतः एतां यात्रां आरभते। मुख्यमन्त्री यात्रायां भागं ग्रहीतुं शनिवासरे दिल्लीतः गुवाहाटीं प्रति प्रस्थितवान्। मुख्यमन्त्री रात्रौ गुवाहाटीनगरे एव तिष्ठति। इतः सः रविवासरे प्रातः १०.१५ वादने वायुमार्गेण इम्फालनगरं प्रति प्रस्थास्यति। इम्फाले राहुलगान्धी इत्यस्य भारतजोड़ो न्याययात्रायाः भागः भूत्वा दिल्लीं प्रत्यागमिष्यति। अत्र सः केन्द्रीयमन्त्रिभिः, दलस्य शीर्षनेतृभिः च मिलितुं शक्नोति ।
हिमाचलस्य मुख्यमन्त्री भारतन्याययात्रायां भागं ग्रहीष्यति
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
