ताइवानदेशस्य सत्तासीनः डेमोक्रेटिक प्रोग्रेसिव् पार्टी इत्यस्य सदस्यः लाई चिंग्-ते राष्ट्रपतिनिर्वाचने विजयं प्राप्तवान्
ताइवानदेशे बहुप्रतीक्षिते राष्ट्रपतिनिर्वाचने डेमोक्रेटिकप्रोग्रेसिवपक्षस्य प्रत्याशी लाई चिंग्-ते विजयं प्राप्तवान्। सः अग्रिमः राष्ट्रपतिः भविष्यति इति निश्चितम्। २०१६ तमात् वर्षात् ताइवानदेशस्य राष्ट्रपतित्वेन त्साई इङ्ग वेन् इत्यस्य कार्यकालद्वयं सम्पन्नं कृत्वा अयं दलस्य तृतीयऐतिहासिकविजयः अस्ति ।
केन्द्रीयनिर्वाचनआयोगस्य प्रतिवेदनानुसारं लाईमहोदयेन पञ्चाशत् लक्षाधिकं मतं प्राप्तम्। कुलमतेषु तेषां भागः चत्वारिंशत् प्रतिशतात् अधिकः अस्ति । कु ओमिताङ्गस्य प्रत्याशी हौ यू-इहः ३३ प्रतिशतं मतं प्राप्तवान् । तृतीयस्थाने स्थितः पीपुल्स् पार्टी इत्यस्य प्रत्याशी वेन् जी २६ प्रतिशतं मतं प्राप्तवान् ।
ताइवानदेशस्य मेयररूपेण कार्यं कृतवान् लाईमहोदयः राष्ट्ररक्षा, अर्थव्यवस्था, लोकतान्त्रिकसाझेदारैः सह च सहकार्यं निरन्तरं कर्तुं प्रतिज्ञां कृतवान् अस्ति।
ताइवानदेशे लाई चिंग्-ते राष्ट्रपतिनिर्वाचने विजयं प्राप्तवान्
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
