महानाटीनृत्यस्य ताले पुनः उल्लास: मनाली-शरदानन्दोत्सवे वाम-तटस्य महिलाभि: कृतं महानाटीनृत्यम्
हिमसंस्कृतवार्ता- मनाली।
पर्यटननगर्य्यां मनाल्यां आयोजितस्य राष्ट्रियस्तरस्य शीतकालीन-आनन्दोत्सवस्य चतुर्थे भागे मनाल्याः वामतटस्य महिलाः मॉलमार्गे कुल्लवीनाटीं कृत्वा संस्कृतिसंरक्षणस्य प्रचारस्य च सन्देशं दत्तवत्य:। दक्षिणतटस्य १२३ महिलासमूहानां १२०० तः अधिकाः महिलाः नाटी-प्रदर्शनं कृतवत्य: । शिशिर-आनन्दोत्सवस्य आकर्षणस्थानमहानाटीनृत्ये वामदक्षिणतटयोः महिलानां मध्ये स्पर्धा आसीत् । शुक्रवासरे दक्षिणतटस्य महिलाः प्रतियोगितायां भागं गृहीतवत्य:। ततः पूर्वं जनवरी-मासस्य ३ दिनाङ्के वामतटस्य महिलाभिः महानाटी-प्रदर्शनं कृतम् आसीत् । प्रथमस्थानस्य दलं एकलक्षरूप्यकाणां पुरस्कारं प्राप्स्यति, द्वितीयस्थानस्य दलं ५०,००० रूप्यकाणां पुरस्कारेण सन्तुष्टं भवितुम् अर्हति। मनाली-नगरस्य मॉल-मार्गे प्रातः ११ वादने कुल्लवी-वेषधारिभिः महिलाभिः अद्भुतं नृत्यं कृतम् । कुल्लवीगायकाः स्वसमूहेन सह मञ्चात् कुल्लवीगीतानि गायन् सर्वा: महिला: नृत्यं कृतवत्य: । एतद् महानाटीनृत्यम् दृष्ट्वा मनालीं प्राप्ताः सहस्रश: पर्यटकाः हिमाचलीसंस्कृतौ उन्मत्ताः अभवन् ।
महानाटी-आयोजक-समिति-सदस्य: बालकराम इत्यनेन उक्तं यत् महिलाभिः पौराणिकाभूषणेषु चन्द्रहार:, बालू, बाजूबन्ध:, पंजेब, त्रीणि पुष्पाणि युतानि वस्त्राणि परिधाय कुल्लवी नृत्यं कृत्वा संस्कृतिरक्षणे बलं दत्तम्। मनाली-नगरस्य एसडीएम रमनकुमार: शर्मा इत्यनेन उक्तं यत् शिशिरकार्निवालं सफलं कर्तुं सर्वप्रयत्नाः कृताः। विधायक: भुवनेश्वरगौड: अवदत् यत् मानवजातेः विकासस्य इतिहासे संस्कृते: भूमिका महत्त्वपूर्णा अस्ति। संस्कृतिसंरक्षणं प्रवर्धनं च आवश्यकं इति उक्तवान्। मनलीनगरस्य महिलाभिः सुन्दरं महानाटीनृत्यम् कृत्वा महिलासशक्तिकरणसहितं संस्कृतिसंरक्षणस्य प्रचारस्य च सन्देशः दत्तः।
भूषाचार-प्रदर्शने अपि लोकसंस्कृतेः दर्शनं दृष्टम्
शीतकालीन-आनन्दोत्सवस्य चतुर्थे दिने भूषाचार-प्रदर्शने (फैशनप्रदर्शने) बहु तालीवादनं प्राप्तम् । जागृतिकलामञ्चमनालीतः कलाकाराः सूर्यसंस्कृतिदलबनोगी, द वारियर् दलम् कुल्लु, परफेक्ट् डान्स क्लब जम्मू इत्येतेषां कलाकारैः भूषाचारस्य प्रदर्शनं कृतम्। कार्निवलस्य चतुर्थे दिने मनुरङ्गशालायां सांस्कृतिककार्यक्रमाः आयोजिताः । अन्ते प्रतिभाप्रदर्शनप्रतियोगिता आरब्धा । अस्यां स्पर्धायां षट् दलानि भागं गृहीतवन्तः । कुल्लुतसांस्कृतिककलासंगम: कुल्लू, लोकनृत्य-अकादमी फिरोजपुरं, जागृतिकलामंच: मनाली, हरिहरनादं, ब्लैकस्पाइडर एवं रुद्र द अल्टीमेट इत्येतेषां संस्थानां नायकै: भागं स्वीकृतम्।
मनाली :महानाटीनृत्यस्य ताले पुनः उल्लास:
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
