हिमाचलम् : ५५ लक्षाधिकाः मतदातार: पञ्जीकृताः, १०४८८२ नवीनाः पञ्जीकृताः-निर्वाचनविभाग:
हिमसंस्कृतवार्ता- शिमला। हिमाचलप्रदेशे भावचित्रमतदातृसूचौ ५५,५६,००१ मतदातार: पञ्जीकृताः सन्ति । अत्र २८,०७,३८७ पुरुषाः, २७,४८,५७८ महिलाः, ३६ तृतीयलिङ्गिन: च सन्ति । एतदतिरिक्तं २५ प्रवासी मतदातारः अपि अत्र समाविष्टाः सन्ति । १८ तः १९ पर्यन्तं आयुवर्गस्य ४८,१८३ नवीनमतदातृणां नाम मतदातृसूचौ पञ्जीकृतम्। सुलह-क्षेत्रे अधिकतमं १,०४,६१२ मतदातारः, न्यूनतमं २५,०४३ मतदातार: लाहौल-स्पीति-विधानसभाक्षेत्रे सन्ति। मुख्यनिर्वाचनपदाधिकारी मनीषगर्गः अवदत् यत् भारतस्य निर्वाचन-आयोगेन अनुमोदितस्य समयसूचनानुसारं भावचित्रमतदातृसूचौ विशेषसारांशपुनरीक्षणस्य कार्यं २०२४ जनवरी १ दिनाङ्के सम्पन्नम् अस्ति। राज्ये ५४,९७,२१६ मतदातॄणां नामानि पञ्जीकृतानि।
पुनरीक्षणकाले १,०४,८८२ नूतनाः मतदातारः पञ्जीकृताः । एतदतिरिक्तं मृत्योः, स्थानपरिवर्तनस्य, द्विगुणपञ्जीकरणस्य च कारणेन मतदातासूचिकातः ४६,०९७ मतदातॄणां नामानि निष्कासितानि सन्ति । प्रकाशिता: मतदातृसूचय: जिला निर्वाचनकार्यालयेषु, निर्वाचन पञ्जीकरण-अधिकारी (एडीएम तथा एसडीएम), सहायक-निर्वाचन- पञ्जीकरण-अधिकारी (तहसीलदार तथा नायब तहसीलदार) इत्येतेषां कार्यालयेषु अपि च प्रत्येकं मतदानकेन्द्रषु मतदानकेन्द्रस्तरस्य अधिकारीणां पार्श्वे च निरीक्षणाय उपलब्धा: सन्ति। एतस्य अतिरिक्तं निर्वाचनविभागस्य जालपुटे http://ceohimachal.nic.in इत्यत्र तथा मतदातापटले मतदातासूचिकाः अपि उपलभ्यन्ते। मुख्यनिर्वाचनाधिकारी मनीषगर्गः निर्वाचनविभागस्य मुख्यालये राजनैतिकदलानां प्रतिनिधिभिः सह मिलित्वा अन्ततः प्रकाशितानां भावचित्ररहितमतदाता-सूचीनां पीडीएफ स्मृतिश्लाकाद्वारा (पेनड्राइवद्वारा) दत्तवान्।
हिमाचलम् : ५५ लक्षाधिकाः मतदातार: पञ्जीकृताः, १०४८८२ नवीनाः पञ्जीकृताः-निर्वाचनविभाग:
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
