Sensex सेन्सेक्सः ३७७ अंकैः पतित्वा, ६९,५५१ अङ्कस्तरमागत्य च समाप्तः, निफ्टी ९०.७० अंकैः न्यूनः अभवत् ।
(हिमसंस्कृतवार्ताः – दिलीप: (नादौनम्)
मगल्वास्रे सेन्सेक्सस्य टीसीएस, विप्रो, आईटीसी इत्यादीनि कम्पनयः १ प्रतिशतं लाभं प्राप्य व्यापारं कुर्वन्ती दृष्टा । परन्तु एतस्य अभिलेखतिथिवृद्धेः अनन्तरम् अपि टाइटन्, मारुति, एनटीपीसी इत्यस्य शेयर्स् मध्ये न्यूनता आगता ।बी०एस०ई० इत्यस्य सेन्सेक्सः ३७७.५० अंकैः न्यूनीभूत्वा ६९,५५१.०३ अङ्कस्तरमागत: ।
तथा च एन०एस०ई० इत्यस्य निफ्टी ९०.७० अंकैः न्यूनः भूत्वा २०,९०६.४० अंकैः समाप्तः अभवत्। पूर्वं सेन्सेक्सः ९६.१५ अंकैः वर्धमानः ७०,०२४.६८ इति स्तरे प्रारम्भिके एव व्यापारे अभवत्; निफ्टी ३४.४ अंकानां लाभेन सह २१,०३१.५० अंकस्तरं प्राप्तवान् आसीत् । सेन्सेक्स स्य टीसीएस, विप्रो, आईटीसी इत्यादीनि कम्पनयः १ प्रतिशतं लाभं प्राप्य व्यापारं कुर्वन्ति स्म । परन्तु अस्य अभिलेखस्य ऋणवृद्धेः अनन्तरम् अपि टाइटन्, मारुति, एनटीपीसी इत्येतयोः शेयरयो: न्यूनता अभवत् ।
डॉलरस्य समक्षे रूप्यकस्य स्थिति: ।
मंगलवासरे रुप्यकस्य मूल्यं एकपैसा: न्यूनतां प्राप्य १२ दिसम्बर् दिनाङ्के अमेरिकीडॉलरस्य विरुद्धं ८३.३८ (अस्थायी) इति मूल्ये समाप्तम्। फेडरल् रिजर्व्-समित्याः, गृहमहार्घताया: दत्तांशस्य प्रकाशनात् पूर्वं निवेशकाः सावधानाः अभवन् तेनैव कारणेन रुप्यके न्यूनता अभवत् ।
सुवर्ण-रजतौ
अद्य भारतीय-बुलियन-विपण्यां २०२३ तमस्य वर्षस्य दिसम्बर मासस्य १२ दिनाङ्के प्रातःकाले सुवर्णस्य मूल्ये न्यूनता, अपरे रजतमूल्ये च वृद्धिः दृष्टा । यत्र सुवर्णस्य मूल्यं प्रतिदशग्रामं ६१,००० रूप्यकाणि आसीत् , तत्रैव रजतस्य मूल्यं प्रतिकिलोग्रामं ७१,००० रुप्यकाणां अधिकं अभवत् ।