सम्पूर्णानन्द-संस्कृत-विश्वविद्यालयस्य विषमसत्र-परीक्षाः (सेमेस्टर्) १५ दिसम्बर्-दिनाङ्कात्, द्वयोः पालीयोः भविष्यति आयोजनम्
परीक्षानियन्त्रकेण दिनेशकुमारेण निर्गमिता समय-सारणी; १५ तः २८ दिसम्बर् यावत् विभिन्नपाठ्यक्रमाणां परीक्षाः
हिमसंस्कृतवार्ता — वाराणसी, २९ नवम्बर् २०२६।
सम्पूर्णानन्द-संस्कृत-विश्वविद्यालयस्य, वाराणस्याः परिसरे सम्बद्धमहाविद्यालयेषु च सञ्चाल्यमानानां विभिन्नपाठ्यक्रमाणां विषमसत्र-परीक्षाः (Odd Semester Examinations) १५ दिसम्बर्, २०२६ दिनाङ्कात् आरप्स्यन्ते। विश्वविद्यालयस्य परीक्षाविभागेन परीक्षाकार्यक्रमः समय-सारणी च निर्गमिता अस्ति।
परीक्षानियन्त्रकः श्रीदिनेशकुमारः सूचितवान् यत् शास्त्री-प्रथमसत्रस्य (सत्रम् २०२६-२०३०), शास्त्री-तृतीयसत्रस्य (सत्रम् २०२५-२०२९), शास्त्री-पञ्चमसत्रस्य (सत्रम् २०२४-२०२८), आचार्य-प्रथमसत्रस्य (सत्रम् २०२६-२०२८) तथा आचार्य-तृतीयसत्रस्य (सत्रम् २०२५-२०२७) संस्थागत- (नियमित), व्यक्तिगत- (प्राइवेट्), भूतपूर्व-, ‘बैक्’ (Back) श्रेणीसुधार-परीक्षार्थिनां च कृते परीक्षाकार्यक्रमः निर्धारितः कृतः अस्ति।
सः अवदत् यत् परीक्षाः द्वयोः आवल्योः सम्पन्नाः भविष्यन्ति। प्रथमा पाली पूर्वाह्ने ०९ वादनतः मध्याह्ने १२ वादनपर्यन्तं तथा द्वितीया पाली अपराह्ने ०१ वादनतः ०४ वादनपर्यन्तम् आयोजयिष्यते। १५ तः २२ दिसम्बर् यावत् विभिन्नविषयाणां लिखित-प्रश्नपत्राणां परीक्षाः भविष्यन्ति। तदनन्तरं २६ दिसम्बर्-दिनाङ्के आचार्य-तृतीयसत्रस्य २०२५-२०२७ तथा २०२३-२०२५ सत्रयोः परीक्षार्थिनां द्वितीयं प्रश्नपत्रं भविष्यति। २७ दिसम्बर्-दिनाङ्के शास्त्री-तृतीयसत्रस्य संस्थागत- व्यक्तिगत-भूतपूर्व-‘बैक्’ श्रेणीपरिष्कार-परीक्षार्थिनां च प्रथम-द्वितीय-प्रश्नपत्रयोः आन्तरिकमूल्याङ्कनं तथा विज्ञान-गृहविज्ञानविषययोः प्रायोगिकपरीक्षाः (प्रैक्टिकल्) आयोजयिष्यन्ते। अस्मिन्नेव दिने आचार्य-तृतीयसत्रस्य तृतीयं प्रश्नपत्रमपि भविष्यति। २८ दिसम्बर्-दिनाङ्के आचार्य-तृतीयसत्रस्य उभयोः सत्रयोः चतुर्थं प्रश्नपत्रं निर्धारितम् अस्ति।
परीक्षानियन्त्रकेण स्पष्टीकृतं यत् ‘बैक्’ तथा श्रेणीपरिष्कारपरीक्षायाः परीक्षार्थिनः स्वकीयैः सम्बद्धविषयैः कृते अनुमन्येषु प्रश्नपत्रेषु एव परीक्षायां सम्मिलिताः भवितुं शक्ष्यन्ति। ‘राष्ट्रीय-शिक्षानीति-२०२०’ (NEP-2020) इत्यस्याः अन्तर्गततया चतुर्वर्षीय-अष्टसत्रयुक्त-शास्त्रीपाठ्यक्रमस्य प्रथम-तृतीयसत्रयोः प्रथम-द्वितीय-प्रश्नपत्रयोः पञ्चविंशति-पञ्चविंशति (२५-२५) अङ्कानाम् आन्तरिकमूल्याङ्कनं सम्बद्धमहाविद्यालयैः अन्तर्जालीय-पटलस्य (ऑनलाइन् पोर्टल्) माध्यमेन करिष्यते।
सः सूचितवान् यत् शास्त्री-प्रथम-, तृतीय- पञ्चमसत्राणां च व्यक्तिगतपरीक्षार्थिनः (प्राइवेट्) २७ दिसम्बर्, २०२६ दिनाङ्के स्वकीयानां सम्बद्धप्रश्नपत्राणाम् आन्तरिकमूल्याङ्कनं परीक्षां च स्वकीये निर्धारिते परीक्षाकेन्द्रे दास्यन्ति। अपरत्र, व्यक्तिगतपरीक्षार्थिभिः (प्राइवेट्) १४ दिसम्बर्, २०२६ दिनाङ्के विश्वविद्यालयपरिसरस्थे केन्द्रीयकार्यालयस्य छात्राध्ययनसङ्ख्याकक्षे स्वकीया उपस्थितिः पञ्जीकरणीया भविष्यति।
परीक्षानियन्त्रकः श्रीदिनेशकुमारः सर्वेभ्यः परीक्षार्थिभ्यः निवेदनं कृतवान् अस्ति यत् ते निर्गमितायाः समय-सारण्याः स्वकीयायाः कक्षायाः, सत्रस्य पाठ्यक्रमस्य च अनुसारेण सावधानतया अवलोकनं कुर्वन्तु तथा निर्धारिते दिनाङ्के, समये पाल्यां च परीक्षायां सम्मिलिताः भूत्वा परीक्षासम्बद्धानां दिशानिर्देशानाम् अनुपालनं सुनिश्चितं कुर्वन्तु।
