षड्दशकानाम् अनन्तरं महान् विजयः, हाटीसमुदायस्य अनुसूचितजनजाति-स्तरः (ST) पुनर्स्थापितः, उच्चन्यायालयेन निरस्ताः सर्वाः याचिकाः
हिमसंस्कृतवार्ता:- नाहनम्।
हिमाचलप्रदेशस्य सिरमौर-मण्डलस्य गिरिपार-क्षेत्रस्य हाटीसमुदायाय उच्चन्यायालयात् महती विश्रान्तिः प्राप्ता अस्ति। केन्द्रसर्वकारस्य पक्षतः हाटीसमुदायाय प्रदत्तम् अनुसूचितजनजाति-स्तरं (ST) आह्वानं ददतीः याचिकाः उच्चन्यायालयेन निरस्ताः कृताः तथा च समुदायस्य अनुसूचितजनजाति-स्तरः पुनर्स्थापितः। अस्मिन्नेव हर्षे नौहराधार-क्षेत्रस्य हाटीसमुदायस्य जनैः विस्फोटकानि प्रज्वाल्य दीपावली आचरिता हर्षश्च प्रकटितः; अस्मिन् हर्षे समग्रं गिरिपार-क्षेत्रम् अद्य उत्साहितम् अदृश्यत।
उच्चन्यायालयेन स्वकीये निर्णये स्पष्टीकृतं यत् केन्द्रीयसंसदः पक्षतः पारितस्य विधानस्य विरुद्धम् उच्चन्यायालयः किमपि स्थगनं संशोधनं वा कर्तुं न शक्नोति। कः समुदायः अनुसूचितजनजाति-सूच्यां समावेष्टव्यः न वा, एतत् निर्धारयितुम् अधिकारः केवलं संसदः पार्श्वे वर्तते।
प्रतिपक्षनेता जयरामठाकुरः अवदत् यत् माननीय-उच्चन्यायालयेन हाटीसमुदायाय अनुसूचितजनजाति-स्तरं दातुं सम्बद्धानां सर्वासां याचिकानां निरस्तीकरणस्य निर्णयस्य स्वागतं कुर्मः। जयरामठाकुरः अकथयत् यत् षड्दशकेभ्यः दीर्घस्य सङ्घर्षस्य अनन्तरम् अधुना हाटीसमुदायस्य जनेभ्यः तेषाम् अधिकारः प्राप्स्यते। तेषाम् अधिकारस्य अस्मिन् सङ्घर्षे मया यत् किमपि कर्तुं शक्यम् आसीत्, तत् मया कृतम्; अस्याः वार्तायाः मह्यं सन्तोषः अस्ति। हाटीसमुदायाय वर्धापनानि शुभकामनाश्च।
अपरत्र केन्द्रीय-हाटीसमितेः अध्यक्षः डॉ. अमीचन्दः अवदत् यत् १९६७ तमे वर्षे जौनसार-क्षेत्राय हाटी-समुदायस्य स्तरः प्राप्तः आसीत्। गिरिपार-क्षेत्रस्य जनैः एतदर्थं दीर्घम् आन्दोलनं कृतम् अस्ति। केन्द्रीय-हाटीसमितिः न्यायालयस्य निर्णयस्य स्वागतं करोति तथा च सहैव एतदर्थं केन्द्र-राज्यसर्वकारयोः धन्यवादमपि करोति।
