नूतनजनपदानां सङ्घटनस्य प्रयासः तीव्रः : प्रशासनिक-एककानां पुनर्सङ्घटनाय सज्जीभविष्यति मानकसञ्चालनप्रक्रिया (SOP), जनेभ्यः याचिष्यन्ते परामर्शाः
हिमसंस्कृतवार्ता — शिमला।
हिमाचलप्रदेशे नूतनमण्डलानां सङ्घटनम् अधिकृत्य प्रयासः तीव्रः सञ्जातः अस्ति। मुख्यमन्त्री सुखविन्दरसिंहसुक्खू-महोदयः शनिवासरे हिमाचलप्रदेशे प्रशासनिक-एककानां पुनर्सङ्घटनाय निर्मितेन आयोगेन सह गोष्ठ्याः अध्यक्षताम् अकरोत्। गोष्ठ्याः अन्तराले सः आयोगस्य कार्यसञ्चालनेन सम्बद्धेषु विविधेषु विषयेषु चर्चाम् अकरोत् तथा निर्देशान् दत्तवान् यत् प्रदेशस्य जनसाङ्ख्यिकी-भौगोलिक-परिस्थितीः सहितम् अन्यान् महत्त्वपूर्णान् पक्षान् ध्याने स्थापयन् प्रशासनिक-एककानां पुनर्सङ्घटनाय सर्वप्रथमं मानकसञ्चालनप्रक्रिया (Standard Operating Procedure – SOP) सज्जीक्रियताम्।
मुख्यमन्त्री आयोगम् अस्मिन् विषये सामान्यजनतायाः मण्डलप्रशासनस्य च पक्षतः परामर्शान् प्राप्तुमपि निर्देशान् दत्तवान्। सुक्खू-महोदयः सामान्यप्रशासनविभागाय (GAD) आयोगस्य सुचारु-कार्यसञ्चालनाय पूर्णं सहयोगं सुविधाश्च उपलब्धं कारयितुं निर्देशान् दत्तवान्। गोष्ठ्याम् आयोगस्य अध्यक्षः न्यायमूर्तिः धर्मचन्दचौधरी, सदस्यौ विशालपंवरः राजेशशर्मा च, सामान्यप्रशासनविभागस्य विशेषसचिवः हरबंससिंहब्रसकोनः तथा भू-अभिलेख-व्यवस्थापन-निदेशिका (निदेशक भू-अभिलेख एवं बंदोबस्त) तोरुल-एस.-रवीश-महोदया च उपस्थिता आसीत्।
आयोगेन षण्मासानाम् अन्तः सर्वकाराय प्रदातव्यं प्रतिवेदनम्
ज्ञातव्यम् अस्ति यत् हिमाचलप्रदेशे नूतनमण्डलानाम् अन्यासां च प्रशासनिक-एककानां पुनर्सङ्घटनाय सेवानिवृत्त-न्यायमूर्तेः धर्मचन्दचौधरी-महोदयस्य अध्यक्षतायाम् आयोगस्य सङ्घटनम् कृतम् अस्ति। आयोगः अधुना प्रदेशे विद्यमानायाः प्रशासनिकव्यवस्थायाः समीक्षां कृत्वा स्वकीयाः संस्तुतीः सज्जीकरणस्य प्रक्रियाम् अग्रे वर्धयिष्यति। आयोगेन षण्मासानाम् अन्तः सर्वकाराय स्वकीयं प्रतिवेदनं समर्पणीयम् अस्ति।
आयोगः प्रदेशे विद्यमानानां मण्डलानाम्, उपमण्डलानां, उपमण्डलकार्यालयानां (तहसील), उपतहसील-कार्यालयानां विकासखण्डानां च व्यवस्थायाः समीक्षां करिष्यति। अस्मिन् आवश्यकतानुसारं नूतन-प्रशासनिक-एककानां निर्माणस्य, विद्यमान-एककानां विलयस्य, विभाजनस्य अथवा तासां पुनर्सङ्घटनस्य सम्भावनानाम् उपरि विचारः करिष्यते। एतदर्थं जनसङ्ख्या, भौगोलिकपरिस्थितयः, जनानां सर्वकारीयकार्यालयेषु सुलभता प्रशासनिकी दक्षता च सदृशाः पक्षाः आधाराः निर्मास्यन्ते। आयोगः जनप्रतिनिधिभ्यः, सम्बद्धविभागेभ्यः अन्येभ्यः च पक्षेभ्यः परामर्शानपि स्वीकरिष्यति। एतदतिरिच्य नूतन-प्रशासनिक-एककानां सरंचनायां सति भवनेषु, कार्यालयेषु, कर्मचारिषु आधारभूतसुविधासु च आगमिष्यतः व्ययस्य आकलनम् अपि करिष्यते।
