मोहनजोदडो-अन्वेषणे राखालदासबनर्जीवर्यस्य योगदानम् अविस्मरणीयम् – डॉ. फणिकान्तमिश्रः
संस्कृतविभागस्य, प्राचीनभारतीयेतिहास-पुरातत्त्व-संस्कृतिविभागस्य तथा डॉ. प्रभातदासफाउण्डेशनस्य संयुक्ततत्त्वावधाने अन्तरराष्ट्रीयसंगोष्ठी आयोजिता
दरभंगा हिमसंस्कृतवार्ता: राघव नाथ झा
भारतीयपुरातत्त्वेतिहासस्य क्षेत्रे राखालदासबनर्जीवर्यस्य योगदानम् अविस्मरणीयम्। सिन्धुघाटीसभ्यतायाः प्रमुखस्थलस्य मोहनजोदडोस्य अन्वेषणेन भारतीयसभ्यतायाः प्राचीनता विश्वस्य प्राचीनतमसभ्यतासु प्रतिष्ठिता अभवत्। इति भारतीयपुरातत्त्वसर्वेक्षणस्य पूर्वक्षेत्रस्य कोलकातास्थितस्य क्षेत्रीयनिदेशकः डॉ. फणिकान्तमिश्रः अन्तर्जालमाध्यमेन मुख्यवक्तृरूपेण अवदत्।
विश्वविद्यालयस्य संस्कृतविभागस्य, प्राचीनभारतीयेतिहास-पुरातत्त्व-संस्कृतिविभागस्य तथा डॉ. प्रभातदासफाउण्डेशनस्य संयुक्ततत्त्वावधाने ‘पुरातत्त्वे राखालदासबनर्जीवर्यस्य योगदानम्’ इति विषयमधिकृत्य निःशुल्का अन्तरराष्ट्रीयसंगोष्ठी आयोजिता। मुख्यवक्तुः डॉ. मिश्रस्य मते राखालदासबनर्जीवर्यः भारतस्य अग्रगण्येषु पुरातत्त्वविद्वत्सु अन्यतमः आसीत्। मोहनजोदडोस्य उत्खननेन तेन सिन्धुघाटीसभ्यतायाः प्राचीनतां वैशिष्ट्यं च प्रकाशयितुं महत्त्वपूर्णं योगदानं कृतम्।
मुख्यातिथिः अमेरिकादेशस्य बोस्टननगरनिवासी लेखकः सम्पादकश्च डॉ. सतीशझा अवदत् यत् बनर्जीवर्यस्य अनुसन्धानैः भारतीयेतिहासस्य प्राचीनतायाः विषये प्रचलिताः धारणाः परिवर्तिताः। तेन मोहनजोदडोस्थबौद्धस्तूपानां विहारावशेषाणां च उत्खननम् अपि कृतम्। अभिलेखशास्त्रे, प्राचीनमन्दिरवास्तुकलायां मूर्तिकलायां च तस्य योगदानम् उल्लेखनीयम् आसीत्।
अतिथीनां स्वागतं विषयप्रवेशं च कुर्वन् संगोष्ठ्याः संयोजकः डॉ. आर. एन. चौरसियः अवदत् यत् राखालदासबनर्जीवर्यः कुशलः पुरातत्त्ववेत्ता अभिलेखविद् च आसीत्। प्राचीनस्मारकाणाम्, अभिलेखानां, मुद्राणां, मूर्तीनां तथा सभ्यतानाम् अध्ययने तस्य विशेषरुचिः आसीत्। केवलं पञ्चचत्वारिंशद्वर्षीयायुषि एव तेन भारतीयसभ्यतायाः प्राचीनेतिहासस्य प्रकाशने महत्त्वपूर्णं योगदानं प्रदत्तम्।अध्यक्षीयसम्बोधने डॉ. कृष्णकान्तझा औपनिवेशिकशासनेन भारतीयविदुषां प्रतिभायाः यथोचितं सम्मानं न कृतमिति प्रतिपादितवान्। राखालदासबनर्जीवर्यः अपि प्रताडनायाः शिकारः अभवत्। महामना मदनमोहनमालवीयवर्येण तस्य प्रतिभाम् अभिज्ञाय काशिहिन्दूविश्वविद्यालये कार्याय आमन्त्रितः। डॉ. फणिकान्तमिश्रेण अनुसन्धानद्वारा तस्य योगदानं पुनः प्रकाशे आनीतम् इति प्रशंसितवान्।कार्यक्रमस्य शुभारम्भः डॉ. मनमोहनझावर्यस्य मङ्गलाचरणेन अतिथिभिश्च दीपप्रज्वलनेन अभवत्। अतिथीनां पुष्पगुच्छैः स्वागतं कृतम्। फाउण्डेशनस्य सचिवः श्रीमुकेशकुमारझा कार्यक्रमस्य सञ्चालनं कृत्वा धन्यवादज्ञापनमपि कृतवान्। अस्यां निःशुल्कसंगोष्ठ्यां सहभागीभ्यः सर्वेभ्यः शिक्षकभ्यः, शोधार्थिभ्यः, विद्यार्थिभ्यश्च फाउण्डेशनस्य पक्षतः प्रमाणपत्राणि प्रदत्तानि।अस्मिन्नवसरे प्राचीनभारतीयेतिहास-पुरातत्त्व-संस्कृतिविभागस्य अध्यक्षः डॉ. अमीरअलीखानः, अध्यापिका डॉ. प्रतिभाकिरणः च स्वविचारान् प्रस्तुतवन्तौ। संगोष्ठ्यां डॉ. ममतास्नेही, डॉ. मोनाशर्मा, डॉ. मनुराजशर्मा, डॉ. अजयकुमारः, डॉ. शैलेन्द्रः सहिताः सप्ततितोऽधिकाः शिक्षकाः, शोधार्थिनः, विद्यार्थिनश्च प्रत्यक्षतः अन्तर्जालमाध्यमेन च उपस्थिताः आसन्।
मोहनजोदडो-अन्वेषणे राखालदासबनर्जीवर्यस्य योगदानम् अविस्मरणीयम् – डॉ. फणिकान्तमिश्रः
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
