अयोध्यायां नवम्बरमासस्य २९ दिनाङ्के भविष्यति श्रीरामललायाः तिलकोत्सवः।
जनकपुरतः मधेशप्रदेशस्य सभामुखस्य नेतृत्वे ५१ तिलककर्तारः आगमिष्यन्ति।
हिमसंस्कृतवार्ता: वृजेश कुमार पाण्डेय
अयोध्या। भारत-नेपालयोः शताब्दीनां प्राचीनः पारम्परिकः सांस्कृतिकः धार्मिकश्च सम्बन्धः श्रीरामललायाः तिलकोत्सवस्य माध्यमेन पुनः प्रगाढः कर्तुं सज्जताः पूर्णाः अभवन्। मातुः जानक्याः मातृगृहात् जनकपुरतः स्वपाहुनं भगवान् श्रीरामचन्द्रं तिलकं कर्तुं नेपालस्य प्रतिनिधिमण्डलं नवम्बरमासस्य २९ दिनाङ्के अयोध्यां सम्प्राप्स्यति।
अस्मिन् वर्षे श्रीरामललायाः तिलकोत्सवे मधेशप्रदेशस्य विधानसभायाः सभामुखस्य रामाशीषयादवस्य नेतृत्वे ५१ तिलककर्तारः अयोध्यां समागमिष्यन्ति।
अस्मिन् प्रतिनिधिमण्डले जनकपुरस्य महापौरः मनोजसाहः, जानकीमन्दिरस्य महन्तः रामतपेश्वरदासवैष्णवः, नेपालविश्वहिन्दुपरिषदः केन्द्रीयसदस्यः मनोहरसाहः, धनुषाजनपदस्य विश्वहिन्दुपरिषदः अध्यक्षः सन्तोषसाहः च अन्ये च गणमान्याः सदस्याः सम्मिलिताः भविष्यन्ति।
प्रतिनिधिमण्डले दश महिलाः अपि भविष्यन्ति। ताः भगवत्याः सीतायाः सखीरूपेण अयोध्यां समागमिष्यन्ति।
अयोध्यायाः रामसेवकपुरमे सादे धार्मिकसमारोहे भगवान् श्रीरामचन्द्रस्य तिलकोत्सवः सम्पन्नः भविष्यति। अनेन पारम्परिकेन आयोजनेन भारत-नेपालयोः प्राचीनः सांस्कृतिकः, धार्मिकः, पारिवारिकश्च सम्बन्धः पुनः सुदृढः भविष्यति।

‘ Him Sanskritam’ is a morninger digital newsletter being broadcasted every morning – when the sunlight emits its very first ray – glory and shining on the earth ; likewise ‘ Him Sanskritam’ spread and disseminates the local , national and international news in Sanskrit language , with a pious motive to keep the Sanskrit language alive and propogate through the medium of news. I appreciate the efforts of the entire team of ‘Him Sanskritam’ . It is noteworthy that this newsletter is published uninterruptedly – without any holiday- from the farflung hilly area of Himachalpradesh ( Bharat ) with scanty resources – but filled with devotion , dedication and firm determination. I like , admire and adore ‘ Him Sanskritam’ morninger newsletter .