विज्ञानमेला विद्यार्थिनां कल्पनाशक्तेः वैज्ञानिकचिन्तनस्य च प्रदर्शनाय उत्तमं मञ्चः – डॉ. रविन्द्रकान्हेरे
विद्याभारत्याः चतुर्विंशतितमः अखिलभारतीयविज्ञानमेला नवम्बरमासस्य २७ तः २९ दिनाङ्कपर्यन्तं गोरखपुरे आयोज्यते।
हिमसंस्कृतवार्ता: वृजेश कुमार पाण्डेय
गोरखपुरम्। विद्याभारती-अखिलभारतीयशिक्षासंस्थानस्य राष्ट्रियाध्यक्षः डॉ. रविन्द्रकान्हेरे महोदयः गोरखपुरनगरस्य पक्कीबागस्थे सरस्वतीशिशुमन्दिरे (१०+२) आयोजितायां पत्रकारवार्तायां सूचितवान् यत् विद्याभारती-अखिलभारतीयशिक्षासंस्थानस्य तत्त्वावधाने चतुर्विंशतितमः अखिलभारतीयविज्ञानमेला २०२६ तमस्य वर्षस्य नवम्बरमासस्य २७, २८, २९ दिनाङ्केषु गोरखपुरनगरे आयोजयिष्यते। अस्य राष्ट्रियस्तरीयस्य आयोजनस्य आतिथ्यदायित्वं पक्कीबागस्थायै सरस्वतीशिशुमन्दिरस्य (१०+२) संस्थायै प्रदत्तम् अस्ति। एतद् पूर्वोत्तरप्रदेशस्य शैक्षिकवैज्ञानिकदृष्ट्या महत्त्वपूर्णम् अवसरः अस्ति।
ते उक्तवन्तः यत् विज्ञानमेला विद्यार्थिनां कल्पनाशक्तेः वैज्ञानिकचिन्तनस्य च प्रदर्शनाय महत्त्वपूर्णः मञ्चः अस्ति। अयं मेला विद्यार्थिषु वैज्ञानिकदृष्टिकोणस्य, नवाचारस्य, सृजनात्मकतायाः, तार्किकचिन्तनस्य, प्रयोगात्मकज्ञानस्य च विकासाय विशेषरूपेण सहायकः भविष्यति।
ते अवदन् यत् विज्ञानं केवलं पुस्तकपाठनस्य परीक्षासु अङ्कप्राप्तेः वा विषयः नास्ति, अपितु जीवनस्य अवगमनस्य, समस्यासमाधानस्य, प्रकृतेः रहस्यान्वेषणस्य च निरन्तरप्रक्रिया अस्ति। विज्ञानं केवलं सैद्धान्तिकज्ञाने एव सीमितं न भवेत्। प्रयोगैः, निरीक्षणैः, प्रतिरूपनिर्माणेन, अनुसन्धानैश्च विद्यार्थिभ्यः स्वयमेव ज्ञानार्जनस्य स्वप्रतिभाप्रदर्शनस्य च अवसरः प्रदातव्यः।
डॉ. रविन्द्रकान्हेरे महोदयः उक्तवन्तः यत् भारतस्य प्राचीनज्ञानपरम्परा अत्यन्तं समृद्धा अस्ति। अस्य विज्ञानमेलायाः ध्येयवाक्यं महर्षिपतञ्जलेः सूत्रम्— “प्रत्यक्षानुमानागमाः प्रमाणानि” इति अस्ति। एतत् सूत्रं प्रत्यक्षानुभवम्, अनुमानम्, आगमं च ज्ञानस्य प्रमाणरूपेण स्वीकरोति तथा भारतीयवैज्ञानिकपरम्परायाः वैशिष्ट्यं प्रतिपादयति। गणिते, खगोलविज्ञाने, चिकित्साशास्त्रे, धातुविज्ञाने च अस्माकं पूर्वजैः महत्त्वपूर्णं योगदानं प्रदत्तम्। अयं विज्ञानमेला प्राचीनभारतीयज्ञानपरम्परायाः आधुनिकवैज्ञानिकदृष्टिकोणेन सह समन्वयं कृत्वा विद्यार्थिषु राष्ट्रगौरवस्य भावनां राष्ट्रनिर्माणस्य च चेतनां जागरयितुं सहायकः भविष्यति। विज्ञानस्य वास्तविकं साफल्यं तदैव सम्भवति, यदा तस्य उपयोगः मानवसेवायै, पर्यावरणसंरक्षणाय, कृषिक्षेत्रे, स्वास्थ्यसेवायां, ग्रामीणविकाससम्बद्धानां समस्याणां समाधानाय च भवति।
अस्मिन् आयोजने देशस्य विभिन्नप्रदेशेभ्यः विद्याभारतीद्वारा सञ्चालितविद्यालयेभ्यः बालवर्गस्य, किशोरवर्गस्य, तरुणवर्गस्य च प्रायः षट्शतं चयनिताः बालवैज्ञानिकाः सहभागं करिष्यन्ति। ते विज्ञानप्रश्नमञ्चे, विज्ञानप्रदर्शने, विज्ञानप्रयोगे, पत्रवाचनप्रतियोगितायां च स्वप्रतिभां प्रदर्शयिष्यन्ति। एतेषां अतिरिक्तं प्रायः चत्वारः शतं संरक्षकाचार्याः अपि भागं ग्रहीष्यन्ति। एवं समग्ररूपेण सहस्राधिकानां प्रतिभागिनां सहभागिता भविष्यति।
अस्य आयोजनस्य अन्तर्गतं नवम्बरमासस्य २८ दिनाङ्के विज्ञानविमर्शस्य अपि आयोजनं भविष्यति। अस्मिन् अवसरे भारतीयान्तरिक्षानुसन्धानसङ्घटने (इसरो) तिरुवनन्तपुरमस्थे केन्द्रे कार्यरतः वरिष्ठवैज्ञानिकः डॉ. निशङ्कश्रीवास्तवः विद्यार्थिभिः सह चन्द्रयानम्, मङ्गलयानमिशनम्, आदित्य-एल१ इत्यादिविषयेषु संवादं करिष्यति तथा च तेषाम् उत्साहवर्धनं करिष्यति।
विज्ञानमेलायां गोरखपुरमहानगरस्य विभिन्नविद्यालयानां महाविद्यालयानां च विद्यार्थिनः विज्ञानप्रदर्शनानाम् अवलोकनस्य अवसरं प्राप्स्यन्ति। समग्रप्रतियोगितायाः निर्णायकत्वेन मार्गदर्शकत्वेन च दीनदयाल-उपाध्याय-गोरखपुरविश्वविद्यालयस्य तथा मदनमोहनमालवीय-प्रौद्योगिकीविश्वविद्यालयस्य प्राध्यापकाः, सहायकप्राध्यापकाः च उपस्थिताः भविष्यन्ति।
अस्यां पत्रकारवार्तायाम् अखिलभारतीयविज्ञानसंयोजकः नगेन्द्रपाण्डेयः, प्रदेशनिरीक्षकः रामसिंहः, विद्यालयस्य प्रधानाचार्यः डॉ. राजेशसिंहः, नरेन्द्रचन्दकौशिकः, मनीषदुबे च उपस्थिताः आसन्।
