पर्यावरणसंरक्षणाय हिमाचलपथपरिवहननिगमं च आत्मनिर्भरं कर्तुम् विद्युत्-बस-यानानां समूहं वर्धयिष्यति सरकारः – मुख्यमन्त्री
हिमसंस्कृतवार्ता: – हमीरपुरम्।
मुख्यमन्त्री सुखविन्दरसिंहसुक्खू हमीरपुरमण्डलस्य नादौनक्षेत्रस्य मझयार-स्थाने सेरा-तः हमीरपुर-पर्यन्तं नवीन-बस-मार्गस्य शुभाङ्गीकारं (शुभारम्भं) कृतवान्। अस्याः बस-सेवायाः प्रारम्भेण हमीरपुर-नादौन-सेरा-तथा पार्श्ववर्तिनां बहुनां ग्रामाणां जनानां दीर्घकालात् चलन्ती याचना पूर्णा अभवत्। अनेन नवीनेन बस-मार्गेण क्षेत्रे सार्वजनिक-परिवहन-व्यवस्था सुदृढा भविष्यति तथा च जनेभ्यः सुविधाजनका, विश्वसनीया, सुलभा च परिवहन-सुविधा उपलब्धा भविष्यति। अस्याः बस-सेवायाः विशेषरूपेण डॉ. राधाकृष्णन्-राजकीय-चिकित्सा-महाविद्यालयम् (जोलसप्पड) प्रति गच्छतां आगच्छतां च रुग्णानाम्, तेषां परिचारकाणां च लाभः भविष्यति। एतदतिरिक्तं विद्यार्थिनाम्, कर्मचारिणाम्, नित्यम् आवागमनं कुर्वतां च अन्यजनानां स्व-गन्तव्यं प्राप्तुं सुलभता भविष्यति।
अन्यायाः सेवायाः ग्रामीणक्षेत्राणां जनानां यात्रा-सम्बन्धिन्यः समस्याः न्यूनाः भविष्यन्ति, समयस्य रक्षणं भविष्यति, तथा च शिक्षा-स्वास्थ्य-प्रशासनिक-संस्थानानि प्रति अभिगम्यता उत्तरा भविष्यति। एष: प्रयास: राज्यसर्वकारस्य तां प्रतिबद्धतां दर्शयति, यस्याः अन्तर्गतं ग्रामीण-सुदूर-क्षेत्रेषु उत्तम-सार्वजनिक-परिवहन-सुविधाः उपलब्धयितुम् विशेषं ध्यानं दीयते। मुख्यमन्त्री अवदत् यत् राज्यसर्वकारः सार्वजनिक-परिवहन-व्यवस्थां आधुनिकीं, मिताव्ययात्मिकाम्, पर्यावरणानुकूलां च कर्तुं निरन्तरं प्रयासं करोति। सः अकथयत् यत् पर्यावरणसंरक्षणस्य उद्देश्येन राज्यसर्वकारेण स्वस्य प्रथमे एव आयव्ययके (बजट्-मध्ये) हिमाचलप्रदेशं हरित-ऊर्जा-राज्यं कर्तुं सङ्कल्पः गृहीतः आसीत्, अस्यामेव दिशि विद्युत्-वाहनानां प्रोत्साहनं प्राथमिकतां दत्तम्।
मुख्यमन्त्री अवदत् यत् राज्यसर्वकारः हिमाचल-पथ-परिवहन-निगमम् (HRTC) आर्थिकरूपेण आत्मनिर्भरं कर्तुं प्रतिबद्धः अस्ति। निगमस्य कृते निवृत्तिवेतनम् (पेंशन), वेतनम्, अन्यानि च व्ययानि इति कारणैः महतः वित्तीय-दायित्वस्य वहनं करणीयम् भवति। एतादृश्यां स्थितौ निगमस्य सञ्चालन-व्ययं न्यूनीकर्तुम् आवश्यकम् अस्ति। सः अवदत् यत् डीजल्-बस-यानानां तुलनायां विद्युत्-बस-यानानां सञ्चालनम् अधिकं मिताव्ययात्मकं वर्तते, येन निगमस्य आर्थिकस्थितेः सुदृढीकरणे सहायता लप्स्यते। अस्याः एव दृष्ट्या राज्यसर्वकारः विद्युत्-बस-यानेभ्यः प्राथमिकताम् ददाति।
मुख्यमन्त्री सुक्खू अवदत् यत् राज्यसर्वकारः १,००० विद्युत्-बस-यानानां क्रयणं करिष्यति। आगमिषु वर्षेषु अपि निगमस्य यान-समूहे अन्यानि विद्युत्-बस-यानानि संयोजयितुं प्रक्रिया निरन्तरा स्थास्यति, यतो हि HRTC-निगमः चरणबद्धरूपेण विद्युत्-परिवहन-व्यवस्थां प्रति अग्रे सरेत्। मुख्यमन्त्री अवदत् यत् हिमाचलप्रदेशस्य भौगोलिकी स्थितिः अन्यराज्येभ्यः भिन्ना अस्ति। राज्यस्य दुर्गमेषु, सुदूरेषु, कठिनासु च पर्वतीय-स्थलीषु अविरत-परिवहन-सेवाः निश्चिताः कर्तुम् डीजल्-बस-यानानाम् आवश्यकता स्थास्यत्येव। विशेषतः तादृशेषु क्षेत्रेषु, यत्र विद्युत्-बस-यानानां सञ्चालनं प्राविधिकैः (तकनीकी) भौगोलिकैः वा कारणैः आह्वानपूर्णं भवितुं शक्यते, तत्र डीजल्-बस-यानानि महत्त्वपूर्णां भूमिकां निर्वहिष्यन्ति। सः अकथयत् यत् राज्यसर्वकारः विद्युत्-डीजल्-बस-यानानां मध्ये सन्तुलित-समन्वयं संस्थाप्य सार्वजनिक-परिवहन-व्यवस्थां अधिक-सुदृढां करिष्यति, येन राज्यस्य प्रत्येकस्मिन् क्षेत्रे जनेभ्यः उत्तमाः अविरताः च परिवहन-सुविधाः उपलब्धाः भवेयुः।
