गङ्गायाः निर्मलता भारतीयसंस्कृतेः मानवतायाश्च आत्मनः संरक्षणम् वर्तते — प्रो. बिहारीलालशर्मा
हिमसंस्कृतवार्ता: – चन्दौली।
पश्चिमवाहिनीमातागङ्गायाः पावनतटे स्थिते बलुआघाटे भारतीयज्ञानपरम्पराकेन्द्रस्य, सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्य, वाराणसी इत्यस्य, गङ्गासेवासमितेः, बलुआ इत्येतेषां संयुक्ततत्त्वावधाने द्विवसीयायाः राष्ट्रियसङ्गोष्ठ्याः *‘ग्रामस्य गङ्गा : संरक्षणं विकासश्च’* इत्यस्याः भव्यम् उद्घाटनं जातम्। समारोहस्य मुख्यातिथिः विश्वविद्यालयस्य कुलपतिः प्रो. बिहारीलालशर्मा तथा मुख्यवक्ता प्रान्तीयसहकार्यवाहः प्रो. राकेशतिवारी आसीत्। कार्यक्रमे प्रो. दिनेशगर्गः, डॉ. विजयकुमारशर्मा, डॉ. आशीषमणित्रिपाठी, डॉ. ज्ञानेन्द्रसापकोटा इत्येतै: सह अनेके विद्वांसः, शिक्षाविदः विद्यार्थिनश्च उपस्थिताः आसन्।
मुख्यातिथिना प्रो. बिहारीलालशर्मणा उक्तं यत् गङ्गायाः निर्मलता केवलं नद्याः संरक्षणं न, अपितु भारतीयसंस्कृतेः, राष्ट्रियायाः अस्मितायाः, मानवतायाः आत्मनश्च संरक्षणम् अस्ति। आगच्छन्त्यः सन्ततयः गङ्गायाः महिमानं तदैव अनुभवितुं शक्नुवन्ति, यदा वयं तस्याः अविरलतां निर्मलतां च सुरक्षितं रक्षिष्यामः। केवलं दीपप्रज्वलनं न पर्याप्तम्, अपितु गङ्गायां अवकर-अपशिष्टान् अप्रवाहनस्य सङ्कल्पः करणीयः। गङ्गायाः स्वच्छतायाः वास्तविकः आरम्भः अस्माकम् एव आचरणस्य निर्मलतायाः भवेत्।
तेन भारतीयज्ञानपरम्परायाः उल्लेखं कुर्वता उक्तं यत् भारतं ज्ञानस्य, साधनायाः, उपासनायाः आध्यात्मिकचेतनायाश्च भूमिः अस्ति। अस्माकं संस्कृतिना नद्यः मातृरूपेण प्रकृतिश्च देवतारूपेण स्वीकृताः सन्ति। जलस्य अन्नस्य च शुद्धतया शरीरम्, शरीरस्य शुद्धतया चिन्तनम्, चिन्तनस्य शुद्धतया च समाजस्य राष्ट्रस्य च कल्याणं सम्भवम् अस्ति। तेन विद्यार्थिभ्यः गङ्गासंरक्षणस्य सन्देशं ग्रामं, वीथिं समाजं च प्रति प्रेषणस्य तथा कथनी-कार्ययोः एकरूपतायाः आनयनस्य आह्वानं कृतम्।
गङ्गां मातृत्वेन सह स्वपुत्रीमपि मत्वा तस्याः संरक्षणस्य संवर्धनस्य च सङ्कल्पः करणीयः
मुख्यवक्त्रा प्रो. राकेशतिवारिणा उक्तं यत् गङ्गा केवलं एका जलधारा न, अपितु प्रत्येकं भारतीयस्य हृदये प्रवहमाना सांस्कृतिकी चेतना अस्ति। गङ्गां केवलं मातरं मननम् अपर्याप्तम्, अपितु स्वपुत्रीवत् तस्याः पालनपोषणं संरक्षणं च करणीयम्। तेन लोकगीतैः, लोकभाषया भारतीयपरम्पराभिः च जनजीवने गङ्गायाः आत्मीया उपस्थितिः रेखांकिता। तेन उक्तं यत् गङ्गायाः श्रद्धा तदैव सार्थका भविष्यति, यदा अस्माकम् अन्तःकरणम् अपि निर्मलं भविष्यति। नूतनायै सन्तत्यै भारतीयपरम्पराणां वैज्ञानिकं तार्किकं च पक्षं बोधनं तथा गङ्गासंरक्षणं जनसङ्कल्पं जनान्दोलनं च करणं समयस्यावश्यकता अस्ति।
अध्यक्षीयसम्बोधने आचार्यसन्तत्रिपाठिना गङ्गायाः सांस्कृतिकमहत्तायां सामाजिकोत्तरदायित्वे च प्रकाशं पातयित्वा उक्तं यत् एतादृशानि आयोजानानि समाजे पर्यावरणसंरक्षणस्य सकारात्मकचेतनायाश्च प्रसारस्य प्रभाविनः माध्यमाः सन्ति।
कार्यक्रमे वक्तृभिः भारतीयज्ञानपरम्परायाः, जलसंस्कृतेः, ग्राम्यजीवनस्य पर्यावरणसंरक्षणस्य च पारस्परिकसम्बद्धेषु विचाराः व्यक्ताः। ग्रामेभ्यः विद्यार्थिभ्यश्च गङ्गां प्रदूषणमुक्तां कर्तुं जलस्रोतसां संरक्षणस्य च सङ्कल्पं ग्रहीतुम् आह्वानं कृतम्।
अन्ते पूर्वप्राचार्येण श्रीराजेन्द्रपाण्डेयेन आभारः ज्ञापितः। तेन आयोजनस्य सप्तदशवर्षेभ्यः प्रचलमानायाः परम्परायाः उल्लेखं कृत्वा सर्वेभ्यः अतिथिभ्यः, विद्वद्भ्यः, शिक्षकेभ्यः, आयोजकेभ्यः विद्यार्थिभ्यश्च आभारः व्यक्तः। उद्घाटनसत्रानन्तरं शोधपत्रवाचनम् अकादमिकविमर्शश्च अभवताम्, सायङ्काले च कविसम्मेलनस्य आयोजनं निर्धारितम्।
सम्पूर्णस्य आयोजनस्य मूलसन्देशः एषः आसीत् यत् गङ्गासंरक्षणं केवलं नद्याः स्वच्छतायाः विषयः न, अपितु भारतीयसंस्कृतेः, प्रकृतेः, ग्राम्यजीवनस्य भाविसन्ततीनां सुरक्षितभविष्यस्य च सामूहिकः सङ्कल्पः अस्ति।
