आधुनिक-युद्धप्रौद्योगिक्याः नूतन-संकटानां च मध्ये सशस्त्र-बलानाम् आक्रामक-रक्षात्मक-क्षमताः सुदृढाः करणीयाः : रक्षामन्त्री राजनाथ सिंहः
नवदेहली। रक्षामन्त्री राजनाथ सिंहः गुरुवासरे उक्तवान् यत् तीव्रगत्या परिवर्तमानायाः युद्ध-प्रौद्योगिक्याः नूतनानां सुरक्षा-सङ्कटानां च मध्ये भारतीय-सशस्त्र-बलैः स्वकीयाः आक्रामक-रक्षात्मक-क्षमताः सुदृढाः करणीयाः। अत्र वायुसेनायाः शीर्ष-सेनानायकानां (कमांडराणां) सम्मेलनं सम्बोधयन् रक्षामन्त्री अवदत् यत् भविष्यस्य युद्धे शत्रवे प्रत्युत्तर-आक्रमणस्य समयः न दातव्यः तथा च स्वयम् अपि प्रत्येकम् अप्रत्याशितम् आक्रमणं सम्मुखीकर्तुं सज्जं भवितव्यम् इति अतीव आवश्यकम् अस्ति।एतदर्थं सः गुप्तचर-निरीक्षणे, प्रौद्योगिकी-श्रेष्ठतायां, त्रिषु सेनासु (थल-जल-वायुसेनासु) च उत्तम-समन्वये बलं दत्तवान्। सः उक्तवान् यत् आधुनिकं युद्धम् अधुना पारम्परिक-युद्धक्षेत्राणि यावत् सीमितं नास्ति। प्रक्षेपणास्त्राणि (मिसाइल), मानवरहित-विमानानि (ड्रोन) उन्नत-शस्त्र-प्रणाल्यः च युद्धस्य दिशां परिवर्तयन्ति। तेन ‘कामिकेज-ड्रोन’, निरीक्षणं तथा च ड्रोन-निरोधक-अभियानानि इत्यादीनां आव्हानानां कृते सज्जैः भवितुं निर्देशः दत्तः।रक्षामन्त्री सिंहः वायुसेनायै इलेक्ट्रॉनिक, साइबर, अन्तरिक्ष-क्षेत्रेषु च युद्धस्य नूतनां रणनीतिम व्यवस्थां च विकसितुम् आवश्यकतां प्रतिपादितवान्। सः अवदत् यत् भविष्यस्य विजयः केवलं विमानानां सङ्ख्यया न निर्धारयिष्यते, अपितु तकनीकी-क्षमता, प्रतिक्रियायाः गतिः, सटीक-सज्जता च निर्णायिकाः भविष्यन्ति। प्रत्येकस्यां परिस्थितौ योद्धुं वायुसेना पूर्णतया सज्जा अस्ति इति तेन कथितम्।अस्मिन् अवसरे रक्षामन्त्रिणा सैनिकानां नूतन-प्रौद्योगिक्याः प्रशिक्षणे युवानाम् ‘अग्निवीराणां’ तकनीकी-ज्ञानस्य च उत्तम-उपयोगे अपि बलं दत्तम्। सः सूचितवान् यत् सशस्त्र-बलेभ्यः प्राप्तानां परामर्शानाम् आधारेण अग्निवीराणां कृते ‘द्वितीय-सेवा-अवधेः’ (सेकंड टूर ऑफ ड्यूटी) निर्णयः स्वीकृतः अस्ति।
आधुनिक-युद्धप्रौद्योगिक्याः नूतन-संकटानां च मध्ये सशस्त्र-बलानाम् आक्रामक-रक्षात्मक-क्षमताः सुदृढाः करणीयाः : रक्षामन्त्री राजनाथ सिंहः
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
