फारस-खातिकायां तैलवाहक-पोते प्रक्षेपास्त्रेण आक्रमणम्; एकः भारतीयः नाविकः आहतः, सर्वे अन्ये सुरक्षिताः
नवदेहलीकेन्द्रीयमन्त्रिणा श्रीसर्बानन्दसोनोवालमहोदयेन बुधवासरे सूचितं यत् फारस-खातिकातः (फारस की खाड़ी) दुबई-नगरं प्रति गच्छति लाइबेरिया-ध्वजयुक्ते एकस्मिन् तैलवाहक-पोते (ऑयल टैंकर) केनचित् वस्तुना (प्रोजेक्टाइल) आक्रमणं कृतम् अस्ति। अस्यां घटनायां चालकदलस्य (क्रू) चत्वारः सदस्याः आहताः (घायल) अभवन्, येषु एकः भारतीयः नागरिकः अपि अन्तर्भवति।इयं घटना मङ्गलवासरे तदा अभवत्, यदा ‘एम.टी. फुजैराह एनर्जी’ (MT Fujairah Energy) नामकं बृहत् तैलवाहकं जलयानम् (क्रूड कैरियर) अल-रुवाइस-स्थानात् दुबई-नगरं प्रति गच्छत् आसीत्।
प्रमुखाः बिन्दवः –
आहतस्य नाविकस्य स्थितिः: श्रीसोनोवालमहोदयेन सामाजिकमाध्यमे (सोशल मीडिया) सूचनां प्रसारयन् उक्तं यत् आक्रमणे चालकदलस्य चत्वारः सदस्याः आहताः जाताः। तेषु एकः भारतीयः नागरिकः आसीत्, यस्य सामान्याः क्षतयः अभवन्। सः अग्रिम-चिकित्सीय-परीक्षणाय सुरक्षितं तटम् आनीतः अस्ति।
अन्येषां नाविकानां सुरक्षा: मन्त्रिणा स्पष्टीकृतं यत् चालकदलस्य अवशिष्टाः १८ सदस्याः, येषु जलयाने स्थिताः पञ्च अन्ये भारतीयाः नाविकाः अपि सन्ति, ते सर्वे पूर्णतया सुरक्षिताः सन्ति तथा च सर्वेषां सम्पर्कः स्थापितः अस्ति।
फारस-खातिकायां तैलवाहक-पोते प्रक्षेपास्त्रेण आक्रमणम्; एकः भारतीयः नाविकः आहतः, सर्वे अन्ये सुरक्षिताः
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
