नोएडा-ग्रेटरनोएडा-नगरयोः मध्ये ‘एक्वा लाईन’ मेट्रो-परियोजनायाः विस्ताराय केन्द्रीयमन्त्रिमण्डलस्य स्वीकृतिः
नवदेहलीनोएडा-ग्रेटरनोएडा-नगरयोः मध्ये मेट्रो-सम्पर्कं (कनेक्टिविटी) वर्धयितुं महत्त्वपूर्णं निर्णयं स्वीकुर्वता केन्द्रसर्वकारेण नोएडा-मेट्रो-रेल-परियोजनायाः ‘एक्वा लाईन’ इत्यस्याः विस्ताराय स्वीकृतिः प्रदत्ता अस्ति। प्रधानमन्त्रिणः श्रीनरेन्द्रमोदीमहोदयस्य अध्यक्षतायां बुधवासरे अत्र सम्पन्नायां केन्द्रीयमन्त्रिमण्डलस्य उपवेशने एतत्सम्बद्धाय प्रस्तावाय अनुमोदनं प्रदत्तम्।उपवेशनानन्तरं सूचना-प्रसारणमन्त्रिणा श्रीअश्विनीवैष्णवमहोदयेन संवाददाता-सम्मेलने सूचितं यत् मन्त्रिमण्डलस्य अस्य निर्णयस्य अन्तर्गतं नोएडा सेक्टर-५१ तः ग्रेटर नोएडा सेक्टर-०४ पर्यन्तम् ८.४४९ किलोमीटर-परिमितः दीर्घः नूतनः मेट्रो-मार्गः (कॉरिडोर) निर्मास्यते। तेन उक्तं यत् इयं परियोजना चतुर्षु वर्षेषु पूर्णा भविष्यति। अस्मिन् मार्गे ०५ उत्थापित-स्थानकानि (एलिवेटेड स्टेशन) भविष्यन्ति। अस्य मार्गस्य आरम्भानन्तरं नोएडा-ग्रेटरनोएडा-नगरयोः सक्रिय-मेट्रो-जालस्य कुलदैर्घ्यं वर्धित्वा ७१.८७८ किलोमीटर-परिमितं भविष्यति।
प्रधानमन्त्रिणः सन्देशः –
प्रधानमन्त्रिणा श्रीनरेन्द्रमोदीमहोदयेन अनन्तरं सामाजिकमाध्यमे (सोशल मीडिया) एकस्मिन् सन्देशे उक्तं यत्, “यथा-यथा नोएडा-ग्रेटरनोएडा-नगरयोः विकासः भवति, तर्हि जनानां प्रतिदिनस्य आवागमनं दीर्घं किमर्थं भवेत्? नोएडा-ग्रेटरनोएडा-नगरयोः निवासिकृते एषः शुभसमाचारः अस्ति यत् मन्त्रिमण्डलेन ‘एक्वा लाईन’ मेट्रो-मार्गस्य विस्ताराय स्वीकृतिः प्रदत्ता अस्ति।”
प्रमुखाः लाभाः –
सुगमः सम्पर्कः: कार्यालयान्, विद्यालयान्, चिकित्सालयान् व्यावसायिककेन्द्राणि च प्राप्तुं सौकर्यं भविष्यति।
यातायात-नियन्त्रणम्: मार्गेषु यातायातस्य सम्मर्दे (भीड़भाड़) न्यूनता आगमिष्यति।
समयस्य रक्षणम्: जनानाम् आवागमने व्यतीतस्य समयस्य न्यूनता भविष्यति।
निश्चितरूपेण इयं परियोजना सम्पर्कसुविधां वर्धयितुं जनजीवनं च अधिकं सुगमं कर्तुं दिशि एकं महत्त्वपूर्णं पदम् अस्ति।
नोएडा-ग्रेटरनोएडा-नगरयोः मध्ये ‘एक्वा लाईन’ मेट्रो-परियोजनायाः विस्ताराय केन्द्रीयमन्त्रिमण्डलस्य स्वीकृतिः
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
