पङ्कजराय-महोदयः सञ्जातः हिमाचल-विद्युद्-नियामक-आयोगस्य अध्यक्षः, ऊर्जाविभागेन निर्गमिता अधिसूचना
हिमसंस्कृतवार्ता — शिमला।
हिमाचलप्रदेशसर्वकारेण ज्येष्ठः भारतीय-प्रशासनिक-सेवा (IAS) अधिकारी पङ्कजराय-महोदयः हिमाचलप्रदेश-विद्युद्-नियामक-आयोगस्य (HPERC) नूतनाध्यक्षरूपेण नियुक्तः। ऊर्जाविभागेन मङ्गलवासरे सायं काले अस्मिन् सन्दर्भे अधिसूचना निर्गमिता। पङ्कजराय-महोदयस्य नियुक्तिः पञ्चवर्षाणि अथवा पञ्चषष्टिवर्षायुः (६५) प्राप्नोति इति पर्यन्तं (यद् उभयोः पूर्वं स्यात्) कृता अस्ति।
पङ्कजराय-महोदयः प्रदेशस्य तीक्ष्णमतिषु अनुभवि-प्रशासनिक-अधिकारिषु गण्यते। सः बिलासपुर-लाहौल-स्पीती-मण्डलयोः उपायुक्तरूपेण सेवाः समर्पितवान् अस्ति। एतदतिरिच्य सः शिमला-नगरनिगमस्य आयुक्तः, ‘राष्ट्रिय-स्वास्थ्य-अभियानस्य’ (NHM) अभियान-निदेशकश्च अपि आसीत्। सः चण्डीगढस्थस्य ‘पीजीआई’ (PGI) संस्थानस्य उपनिदेशक (प्रशासनम्) पदेऽपि नियुक्तः अभवत्। विद्युद्-नियामक-आयोगस्य अध्यक्षपदे नियुक्तेः प्रकरणं दीर्घकालात् चर्चायाः विषयः आसीत्। हिमाचलप्रदेश-उच्चन्यायालयेन अचिरमेव अस्मिन् प्रकरणे महत्त्वपूर्णं निर्णयं श्रावयता राज्यसर्वकारस्य सः निर्णयः निरस्तः कृतः आसीत्, येन चयनसमित्या प्रेषितं नामपटलं (पैनल) प्रत्याख्यातम् आसीत्।
वस्तुतः, चयनसमित्या १४ सितम्बर २०२५ दिनाङ्के अध्यक्षपदार्थम् आइएएस-अधिकारिणः पङ्कजरायस्य राजीवसूदस्य च नाम्नो: संस्तुतिः (अनुशंसा) कृता आसीत्। नामपटलस्य निरस्तीकरणस्य निर्णयं पङ्कजराय-महोदयः उच्चन्यायालये प्रत्याहूतवान् आसीत्। तस्य याचिकायां श्रवणं कुर्वता न्यायालयेन चयनसमित्याः संस्तुतेः आधारेणैव नियुक्तिप्रक्रियां समापयितुं निर्देशाः प्रदत्ताः। न्यायालयेन सर्वकाराय १० नवम्बर् २०२६ दिनाङ्कं यावत् नियुक्तिप्रक्रियां सम्पूर्णीकर्तुं समयावधिः दत्ता आसीत्। साम्प्रतं सर्वकारेण पङ्कजराय-महोदयम् आयोगस्य अध्यक्षरूपेण नियुज्य इयं प्रक्रिया सम्पूर्णा कृता।
