*श्रीसीतारामवैदिकादर्शसंस्कृतमहाविद्यालये पाक्षिकी वाक्यार्थसभा सम्पन्ना।*
कोलकाता , पश्चिमबङ्गः
केन्द्रीयसंस्कृतविश्वविद्यालयसम्बद्धे श्रीसीतारामवैदिकादर्शसंस्कृतमहाविद्यालये प्रतिपक्षम् आयोज्यमानायाः पाक्षिक्याः वाक्यार्थसभायाः आयोजनम् अस्मिन् पक्षे २०२६ तमस्य वर्षस्य अक्टोबरमासस्य २७ दिनाङ्के, कार्तिककृष्णप्रतिपदायां सम्पन्नम्। अस्यां शास्त्रसभायां महाविद्यालयस्य प्राचार्यः, उपप्राचार्यः, आचार्याः, शोधच्छात्राः तथा च छात्राः समुपस्थिताः आसन्।
सभायाः अध्यक्षतां परिसरस्य प्राचार्यः डॉ. सोमेशकुमारमिश्रमहोदयः कृतवान्। अध्यक्षीयोद्बोधने तेन वाक्यार्थसभायाः शास्त्रीयपरम्परायां महत्त्वं प्रतिपादितम्। एतादृशीनां सभानाम् आयोजनं छात्राणां शोधच्छात्राणां च शास्त्रीयज्ञानस्य विकासाय, तर्कशक्तेः परिष्काराय तथा भारतीयज्ञानपरम्परायाः संरक्षणाय संवर्धनाय च अत्यन्तमुपकारकमिति प्राचार्यमहोदयेन प्रतिपादितम्।
सभायां सर्वप्रथमं शोधच्छात्रः श्रीकालीचरणदासः ‘अष्टाङ्गयोगम्’ इति विषयमधिकृत्य स्वकीयवाक्यार्थं प्रस्तुतवान्। तदनन्तरं वेदान्तविभागस्य आचार्यः डॉ. शान्तिघोषमहोदयः गुहाप्रविष्टाधिकरणम् इति विषयमधिकृत्य पाण्डित्यपूर्णं वाक्यार्थं प्रस्तुतवान्।
व्याकरणविभागस्य आचार्यः डॉ. शङ्खशुभ्रगच्छितमहोदयः परिभाषेन्दुशेखरदिशा ‘ताच्छीलिके णेऽण्कृतानि भवन्ति’ इति परिभाषाम् अधिकृत्य व्याकरणशास्त्रीयं वाक्यार्थं प्रस्तुतवान्। बौद्धदर्शनविभागस्य आचार्यः डॉ. शान्तनुकुमारचक्रवर्तिमहोदयः बौद्धदर्शनानुसारं ‘प्रमाणलक्षणम्’ इति विषयमधिकृत्य वाक्यार्थं प्रस्तुतवान्।
सभायाः अन्ते परिसरस्य उपप्राचार्यः वरिष्ठाचार्यः डॉ. राजेश्वरद्विवेदिमहोदयः धन्यवादज्ञापनं कृतवान्। सभायां बङ्गभाषाविभागस्य आचार्यः श्रीकौशिकमालाकारमहोदयः तथा महाविद्यालयस्य अन्ये आचार्याः अपि उपस्थिताः आसन्।
एवं सभायां योगदर्शन-वेदान्त-व्याकरण-बौद्धदर्शनादिविषयेषु शास्त्रीयविमर्शः सम्पन्नः। पाक्षिकी वाक्यार्थसभा महाविद्यालयस्य शास्त्रीयशैक्षणिकपरम्परायाः संवर्धने तथा छात्राणां शोधच्छात्राणां च बौद्धिकविकासे महत्त्वपूर्णां भूमिकां निर्वहति।
