केन्द्रसर्वकारस्य कर्मचारिभ्यः शुभवार्ता अस्ति। सर्वकारेण दीपावलीपर्वणः प्राक् महार्घतावृत्ति: (DA) त्रि प्रतिशतं (३%) वृद्धिः अनुमता। अनेन निर्णयेन १.६ कोटिमिताः वर्तमानाः भूतपूर्वाः च कर्मचारिणः लाभान्विताः भविष्यन्ति। संवर्धितः महार्घताभत्तः २०२६ तमस्य वर्षस्य जुलाई-मासस्य प्रथमतारिकातः प्रभावी भविष्यति।
सम्प्रति केन्द्रीयकर्मचारिणां महार्घताभत्तः षष्टिप्रतिशतं (६०%) वर्तते, नूतनवार्धक्यस्यानन्तरं च त्रिषष्टिप्रतिशतं (६३%) भविष्यति। अनेन कर्मचारिणां प्रतिमासं प्राप्यमाणं वेतनं वर्धिष्यते। वेतने कियती वृद्धिः भविष्यति इति कर्मचारिणः मूलवेतने (बेसिक-पे) आश्रितं वर्तते।
के लाभं प्राप्स्यन्ति?
संवर्धितस्य महार्घताभत्तस्य लाभः प्रायशः अष्टचत्वारिंशल्लक्ष (४८ लक्ष) केन्द्रीयकर्मचारिभ्यः अष्टषष्टिलक्ष (६८ लक्ष) निवृत्तिवेतनभोगिभ्यः (पेन्शनधारकेभ्यः) च प्राप्स्यते। इयं वृद्धिः २०२५ तमस्य वर्षस्य जुलाई-मासतः २०२६ तमस्य वर्षस्य जून-मासपर्यन्तं द्वादशमासानाम् औसत-उपभोक्तृ-मूल्यसूचकाङ्कस्य (खुदरा-मुद्रास्फीतेः) आधारेण निर्धारिता अस्ति।
कियत् वर्धिष्यते वेतनम्?
उदाहरणार्थम्, यदि कस्यचित् कर्मचारिणः मूलवेतनं ४४,९०० रूप्यकाणि सन्ति, तर्हि षष्टिप्रतिशतस्य (६०%) अनुपातेन सः प्रतिमासं २६,९४० रूप्यकाणि प्राप्नोति। प्रतिशतं त्रयाणां (३%) वृद्धेः अनन्तरं त्रिषष्टिप्रतिशतस्य (६३%) अनुपातेन इयं धनराशिः २८,२८७ रूप्यकाणि भविष्यति। अर्थात् कर्मचारी प्रतिमासं १,३४७ रूप्यकाणि अतिरिक्तरूपेण लप्स्यते।
दीपावली प्राक् महार्घतावृत्ति: (DA) सर्वकारेण ३% वृद्धिः अनुमता
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
