द्विगुणादपि अधिकानि संवृत्तानि पीजी-चिकित्सा-आसनानि, षट्सु सर्वकारीय-आयुर्विज्ञान-महाविद्यालयेषु ३२० आसनानां वृद्धिः, अधुना ५९७ आसनानि
हिमसंस्कृतवार्ता — शिमला।
हिमाचलप्रदेशस्य षट्सु सर्वकारीय-आयुर्विज्ञान-महाविद्यालयेषु स्नातकोत्तर-चिकित्सायाः आसनानि २७७ तः संवर्ध्य ५९७ कृतानि। राष्ट्रिय-आयुर्विज्ञान-आयोगात् (NMC) स्वीकृतिप्राप्तेः अनन्तरम् आसनेषु ३२० परिमिता वृद्धिः संवृत्ता। मुख्यमन्त्री सुखविन्दरसिंहसुक्खू-महोदयः तथा च स्वास्थ्यमन्त्री डॉ. (कर्णल्) धनीरामशाण्डिल-महोदयः एतां गतेषु ४० वर्षेषु पीजी-आसनानां बृहत्तमां वृद्धिम् अकथयताम्। प्रदेशसर्वकारेण गतेषु त्रिषु वर्षेषु वरिष्ठ-आवासीय-चिकित्सकानां विशेषज्ञ-शिक्षकाणां च २१८ पदानामपि सृजनं कृतम्।
विज्ञाप्यते यत् आईजीएमसी-शिमला-संस्थाने पीजी-विषये सर्वाधिकं ९१ आसनानि वर्धितानि। अत्र आसनानां सङ्ख्या १३९ तः संवर्ध्य २३० जाता। टाण्डा-आयुर्विज्ञान-महाविद्यालये ९९ तः १५६, मण्ड्यां २४ तः ७९, नाहने ३ तः ३५, चम्बायां ४ तः ३२ तथा च हमीरपुरे ८ तः ६५ आसनानि कृतानि। स्वास्थ्यमन्त्रिणा उक्तं यत् पीजी-आसनानां वृद्ध्या युवचिकित्सकेभ्यः प्रदेशे एव विशेषज्ञ-चिकित्साशिक्षां प्राप्तुम् अधिकाः अवसराः लप्स्यन्ते।
अनेन सर्वकारीयचिकित्सालयेषु विशेषज्ञ-चिकित्सकानाम् उपलब्धतां वर्धयितुं साहाय्यं प्राप्स्यते तथा च रुग्णैः श्रेष्ठतरम् उपचारं लब्धुं शक्ष्यते। सर्वकारेण विशेषज्ञ-कार्यबलं सुदृढीकर्तुं टाण्डायां ५४, नाहने ३१, चम्बायां ३२, मण्ड्यां ३६, चमियाणायां द्वे हमीरपुरे च ६३ पदे सृजितानि। सर्वकारानुसारं चिकित्साशिक्षायाः विस्तारेण विशेषज्ञ-चिकित्सकानां च सङ्ख्यावृद्ध्या प्रदेशे स्वास्थ्यसेवाभ्यः बलं प्राप्स्यते तथा च रुग्णानां विशेषज्ञोपचाराय अन्यराज्येषु निर्भरता न्यूना भविष्यति।
आयुर्वेदविभागे १२१ चिकित्सकाः नियमितीकृताः
हिमाचलप्रदेशे उत्सवकाले आयुर्वेदिक-चिकित्सालयेषु औषधालयेषु च विगतयोः द्वयोः वर्षयोः सेवां प्रददद्भ्यः आयुर्वेदिक-चिकित्सकेभ्यः राज्यसर्वकारेण नियमितीकरणस्य उपहारः प्रदत्तः। अस्मिन् सन्दर्भे विभागेन निर्देशाः निर्गताः। विभागे १२१ चिकित्सकान् नियमितीकृत्य तेभ्यः पदस्थापना अपि प्रदत्ता, सर्वेभ्यश्च चिकित्सकेभ्यः निर्धारितेषु स्थानेषु कार्यभारग्रहणं कर्तुं निर्देशाः प्रदत्ताः।
