बालिका संस्कृतविद्यापीठे नवरात्रिमहोत्सवः भजन-कीर्तनैः समायोजितः
वार्ताप्रेषक: – दीपक शास्त्री
(ढाढरथ, जीन्द (हरियाणा)
बालिका संस्कृतविद्यापीठे नवरात्रिमहोत्सवः अत्यन्तम् उत्साहेन, भक्तिभावेन च आयोजितः। अस्मिन् अवसरे अत्रि चैरिटेबल ट्रस्टस्य तत्त्वावधाने भजन-कीर्तनस्य भव्यः कार्यक्रमः सम्पन्नः। विद्यालयस्य वातावरणं भक्तिमयं, आध्यात्मिकं च अभवत्। उपस्थितैः जनैः भक्तिगीतानि गात्वा मातुः दुर्गायाः आराधना कृता।
कार्यक्रमे अत्रि चैरिटेबल ट्रस्टस्य प्रतिनिधिः श्रीशरद् अत्रिः तथा विद्यालयस्य प्राचार्या डॉ. सुमन शर्मा च उपस्थितान् जनान् सम्बोधितवन्तौ। तौ नवरात्रेः धार्मिकं, सांस्कृतिकं, आध्यात्मिकं च महत्त्वं प्रतिपादितवन्तौ। तौ समाजे संस्काराणां, नारीसम्मानस्य, धार्मिकमूल्यानां च संवर्धनस्य आवश्यकताम् अपि अवबोधितवन्तौ।
अस्मिन् शुभावसरे त्रिशूलदीक्षामहोत्सवः अपि आयोजितः। अयं कार्यक्रमः श्रद्धायाः, शक्त्याः, धर्मस्य च प्रतीकरूपेण सम्पन्नः। उपस्थितैः भक्तैः पूर्णश्रद्धया कार्यक्रमे सहभागिता कृता।
सम्पूर्णः कार्यक्रमः भक्तेः, संस्कृतेः, भारतीयपरम्परायाः च सुन्दरः सङ्गमः आसीत्। विद्यालयपरिवारः अनेन आयोजनेन अत्यन्तं प्रसन्नः अभवत्। एतादृशाः कार्यक्रमाः विद्यार्थिषु धार्मिकसंस्कारान्, नैतिकमूल्यानि, भारतीयसंस्कृतेः प्रति गौरवभावं च वर्धयन्ति।
