भारतीयसंस्कृतौ आभूषणानां प्रासङ्गिकता तथा वैज्ञानिकता विषये विशिष्टं व्याख्यानम्
लखनऊ। अखिलभारतीयसंस्कृतपरिषदः, लखनऊस्य तत्त्वावधाने शनिवारं ‘भारतीयसंस्कृतौ आभूषणानां प्रासङ्गिकता तथा वैज्ञानिकता’ इति विषये विशिष्टव्याख्यानस्य आयोजनं सम्पन्नम्। कार्यक्रमे महिला-महाविद्यालयस्य, लखनऊ नगरस्य संस्कृतविभागस्य वरिष्ठप्राध्यापिका डॉ. ऋतूसिंहः मुख्यवक्त्रीरूपेण उपस्थिताऽभवत्।
मुख्यवक्त्री डॉ. ऋतूसिंहेन भारतीयसंस्कृतौ आभूषणानां महत्त्वं विशदीकृतम्। तया प्रतिपादितं यत् भारतीयपरम्परायां आभूषणानि केवलं शृङ्गारस्य साधनानि न सन्ति, अपितु सौन्दर्यबोधेन सह सांस्कृतिकपरम्परायाः स्वास्थ्यसम्बद्धमान्यतानां च समन्वयं धारयन्ति। मांगटीका, कर्णफूलं, नथ, चूडिकाः, नूपुराः तथा बिछिया इत्यादीनां पारम्परिकाभरणानां विषये तया विविधाः मान्यताः प्रस्तुताः। आयुर्वेदे तथा भारतीयपरम्परायां धातूनां प्रयोगस्य महत्त्वमपि तया प्रतिपादितम्।
मुख्यातिथिः प्रो. हरिशङ्करमिश्रः, पूर्वाचार्यः, हिन्दीविभागः, लखनऊविश्वविद्यालयः, भारतीयभाषाणां विकासे संस्कृतस्य महनीयां भूमिकां प्रतिपादितवान्। तेन केशवः, माधवः इत्यादीनां शब्दानां भाषिकं सांस्कृतिकं च वैशिष्ट्यं प्रकाशयता हिन्दी-संस्कृतयोः मणिकाञ्चनयोगस्य महत्त्वं प्रतिपादितम्।
परिषदः मन्त्री प्रो. प्रयागनारायणमिश्रः वाचिकस्वागतं कृत्वा विषयस्य सारगर्भितां प्रस्तावनां प्रस्तुतवान्। कार्यक्रमस्य अध्यक्षतां परिषदः अध्यक्षः डॉ. चन्द्रभूषणत्रिपाठी अकरोत्। सः भारतीयसंस्कृतौ आभूषणानाम् अस्तित्वस्य वैशिष्ट्यं तेषां सांस्कृतिकमहत्त्वं च विशेषतया प्रकाशयत्।
कार्यक्रमे लखनऊविश्वविद्यालयस्य संस्कृतविभागाध्यक्षः प्रो. अभिमन्युसिंहः, डॉ. गौरवसिंहः, डॉ. कुसुमसिंहः, डॉ. बिधुदत्तपाण्डेयः, कानपुरस्य पूर्वकारागाराधीक्षकः च विशेषरूपेण उपस्थिताः आसन्।
कार्यक्रमस्य सञ्चालनं परिषदः संयुक्तमन्त्री डॉ. अनिलकुमारपोरवालः कृतवान्। कार्यक्रमस्य संयोजिका डॉ. पत्रिकाजैन आसीत्। वैदिकमङ्गलाचरणं मुकेशकुमारेण, लौकिकमङ्गलाचरणं सिन्धुपटेल द्वारा तथा स्वागतगीतं कीर्ति समरीता यादव च प्रस्तुतम्। धन्यवादज्ञापनं लखनऊविश्वविद्यालयस्य संस्कृत-प्राकृतभाषाविभागाध्यक्षः प्रो. अभिमन्युसिंहः कृतवान्।
प्रभवपाण्डेयेन शान्तिपाठः प्रस्तुतः तथा सर्वैः समवेतस्वरेण शान्तिपाठेन कार्यक्रमस्य समापनम् अभवत्। आयोजने संस्कृत-ज्योतिषविभागयोः शोधच्छात्रैः सह पञ्चाशदधिकाः श्रोतारः उपस्थिताः आसन्।
