सङ्कटे हिमाचलस्य सुरम्यः विहग:, गिरेः दुर्लभं न्यासं रक्षिष्यति वन्य-प्राणि-विभागः
हिमसंस्कृतवार्ता — शिमला।
हिमाचले दुर्लभस्य सङ्कटापन्नस्य चीर-मयूर-सदृश-विहगस्य च ( चीर-फिजेंट/Catreus wallichii) संरक्षणाय वन-विभागः नूतनां योजनां निर्मातुं सज्जः अस्ति। एतदर्थं विभागस्य वन्य-प्राणि-पक्षः ‘भारतीय-वन्यजीव-संस्थानस्य’ साहाय्यं स्वीकरिष्यति। प्रस्ताविते अस्मिन् प्रकल्पे ‘कैम्पा’ (CAMPA) इत्यस्य अन्तर्गतं राज्ये प्राप्यमाणा धनराशिः प्रयोक्ष्यते। वन्य-प्राणि-पक्षेण योजना-कार्याणि आरब्धानि इति वृत्तस्य पुष्टिः वन्य-प्राणि-पक्षस्य प्रधान-मुख्य-अरण्यपालेन आलोकप्रेमनागर-महोदयेन कृता।
विदितं स्यात् यत् चीर-विहगस्य संवर्धनाय शिमलायाः चायल-स्थिते संरक्षण-केन्द्रे कार्यं प्रचलति, किन्तु अधुना अस्य संरक्षण-प्रयासेभ्यः गतिं प्रदातुं नूतन-प्रकल्पे कार्यं क्रियते। चायल-क्षेत्रातिरिच्य सराहन-क्षेत्रेऽपि अस्य संरक्षणाय विशेषा योजना विधास्यते। विभागस्य मतेन चीर-विहगस्य अण्डेभ्यः शावकानां निष्कासने (Hatching) काठिन्यम् उत्पद्यते, अतः तस्याः समस्यायाः समाधानाय विशेषज्ञैः सह मिलित्वा कार्यं भविष्यति येन राज्ये एतेषां सङ्ख्या संवर्धेत।
प्राकृतिक-वातावरणे मोक्ष्यन्ते त्रिंशत् (३०) विहगा:
वन्य-प्राणि-पक्षेण कृत्रिम-प्रजननस्य (Captive Breeding) माध्यमेन एतेषां वंश-वृद्धिः कृता अस्ति। अधुना चायल-वनेषु त्रिंशत् (३०) चीर-विहगा: स्वच्छन्द-वातावरणे मोक्तुं सज्जीकृताः। वने विमुक्तेभ्यः एतेभ्यः विहगेभ्यः वन्य-जीव-दलैः तेषां व्यवहारे गतिविधिषु च सततं दृष्टिः स्थापयिष्यते। कृत्रिम-परिवेशात् बहिरागत्य ते वन्य-परिवेशे कथम् आत्मानम् अनुकूलायन्ति, तेषां स्वास्थ्यं जीवन-क्षमता च कीदृशी अस्ति, इत्यस्य विशेषज्ञैः परीक्षणं क्रियते येन आवश्यकाः संरक्षण-उपायाः सम्पाद्येरन्।
नेपाल-पाकिस्थानयोः अपि अस्ति आवासः
चीर-विहग: हिमालयी-क्षेत्रस्य दुर्लभः संरक्षितश्च पक्षी वर्तते। वनानां विलोपेन, प्राकृतिक-आवासानां सङ्कोचेन, अवैध-मृगयया च अस्य सङ्ख्यायां क्षयः जातः। अयं हिमाचलम् अतिरिच्य उत्तराखण्डस्य, नेपालस्य, पाकिस्थानस्य च हिमालयी-भूभागेषु प्राप्यते। अयं विहग: सामान्यतया समुद्रतलात् १५०० तः ३००० मीटर्-उन्नतेषु पर्वतीय-क्षेत्रेषु निवसितुं रोचयति।
दीर्घ-पुच्छः धूसर-पक्षश्च अस्य स्वरूपम्
चीर-विहङ्गस्य पक्षाः धूसर-वर्णीयाः (भूरे) भवन्ति। नेत्रयोः परितः पाटलोहितः (गुलाबी-लाल) वलयः दीर्घा च पुच्छ-पङ्क्तिः अस्य प्रमुखा पहिचानः अस्ति। प्रधान-मुख्य-अरण्यपालः आलोकप्रेमनागरः अवदत् यत् भारतीय-वन्यजीव-संस्थानेन सह मिलित्वा निर्मितायाः अस्याः योजनायाः कृते राज्य-‘कैम्पा’-कोषात् धनस्य प्रबन्धः विधास्यते।
