कृषकाणाम् आय-संवर्धनाय प्रयासाः; मक्का-गोधूमयो: च निर्धारयिष्यते न्यूनतम-समर्थन-मूल्यम् (MSP)
हिमसंस्कृतवार्ता — शिमला।
मुख्यमन्त्री सुखविन्दरसिंहसुक्खू-महोदयः प्रोक्तवान् यत् प्रदेशस्य समृद्धौ कृषकाणां महती भूमिका वर्तते। कृषकाणां परिश्रमेण एव क्षेत्राणि शस्य-श्यामलाणि भवन्ति, ग्रामाणां च अर्थव्यवस्था सुदृढा संजायते। सर्वकारस्य अयं यत्नः अस्ति यत् कृषकाः स्व-शस्यानाम् उचितं मूल्यं प्राप्नुयुः, कृषि-कर्म च तेषाम् आयस्य दृढं साधनं भवेत्। अस्यामेव दिशि सर्वकारः प्राकृतिक-कृषेः प्रोत्साहनेन सह कृषकेभ्यः तेषाम् उपजस्य उत्तमं मूल्यं प्रदातुं विविधान् उपायान् स्वीकरोति।
मुख्यमन्त्रिणा उद्घोषितं यत् राज्य-सर्वकारः मक्का-गोधूमयो: शस्याय न्यूनतम-समर्थन-मूल्यं (MSP) निर्धारयति। अस्याः योजनायाः अन्तर्गतं मक्का-इत्यस्य कृते प्रति-किलोग्रामं पञ्चाशत् (५०) रूप्यकाणि तथा गोधूमस्य कृते अशीति (८०) रूप्यकाणि न्यूनतम-समर्थन-मूल्यं निर्धार्यते। सर्वकारस्य मुख्यम् उद्देश्यं कृषकेभ्यः तेषां श्रमस्य श्रेष्ठम् आर्थिक-लाभं प्रापयितुम् अस्ति, येन शस्य-विक्रयण-काले तेभ्यः सम्यक् मूल्यं लभ्येत, कृषेः जायमानायाम् आय-राशौ च अभिवृद्धिः स्यात्।
मुख्यमन्त्री न्यवेदयत् यत् प्रदेश-सर्वकारः कृषकं ग्रामं च विकासस्य केन्द्र-बिन्दुं (धुरी) मत्वा कार्यं करोति। कृषकाणां श्रमस्य उचित-सम्माननं तेषाम् आय-संवर्धनं च सर्वकारस्य प्राथम्यं वर्तते। कृषि-क्षेत्रस्य सुदृढीकरणाय आगामि-कालेऽपि कृषक-हिताय आवश्यकाः निर्णयाः स्वीकरिष्यन्ते।
