लद्दाख-सौर-ऊर्जा-परियोजना हिमाचलस्य कृते सङ्कटः, परियोजनायाः पुनर्परीक्षणाय मुखरिताः स्वराः
हिमसंस्कृतवार्ता — कुल्लू ।
हिमालयी-क्षेत्रं पर्यावरण-संवेदनशील-मण्डलं घोषितम् अपि अत्र आरोप्यमाणाः बृहदाकाराः प्रकल्पाः सर्वतः जन-चिन्तायाः कारणं जाताः। भारत-सर्वकारस्य ऊर्जा-मन्त्रालयस्य ‘पावर-ग्रिड्-कॉर्पोरेशन’ इत्यनेन लद्दाखस्य पाङ्ग-कारगिल-क्षेत्रयोः विंशति-सहस्र-मेगावाट (२०,००० MW) क्षमतायुक्तस्य सौर-ऊर्जा-संयन्त्रस्य स्थापनाय स्वीकृतिः पूर्वमेव दत्ता अस्ति। किन्तु अत्र उत्पादिता विद्युत् लाहुलतः रोहताङ्ग-मार्गेण मनाली-कुल्लू-मण्डी-बिलासपुर-मण्डलानि अतिक्रम्य हरियाणा-राज्यस्य कैथल-पर्यन्तम् एक-सहस्र-किलोमीटर-दीर्घं (१००० कि.मी.) प्रवासं कृत्वा प्राप्स्यति, यत्र मुख्य-विद्युत्-ग्रिड् (Power Grid) स्थापनीयः अस्ति।
संवेदनशील-पारिस्थितिक-मण्डले सौर-ऊर्जायाः अस्याः विशाल-विद्युत्-सञ्चरण-पङ्क्त्या सम्पूर्णः हिमालयः कम्पितः भविष्यति। शीत-मरुस्थले विविध-हिमनदीनां (Glaciers) मुखात् गच्छन्ती इयं पङ्क्तिः हिमाचलस्य सहस्रशः कृषकाणाम् उद्यानपालकानां च कृषि-फल-वाटिका-भूमीः स्वगर्भे समाप्य सद्य-धान्य-फल-शाकानाम् अभावम् उत्पादयिष्यति।
अस्याः परियोजनायाः कृते साम्प्रतं ‘उच्च-वोल्टता-प्रत्यक्ष-धारा’ (HVDC) सञ्चरण-पङ्क्तिः प्रस्ताविता अस्ति, किन्तु निगमः एतां पङ्क्तिं ‘प्रत्यावर्ती-धारा’ (AC) रूपेण परिवर्तयितुं विचारयति। अनेन शत-कोटिशः (१०० अरब) रूप्यकाणाम् अतिरिक्त-व्ययभारः आपतिष्यति तथा च केवलं सञ्चरण-पङ्क्तौ ४५० अरब-रूप्यकाणां व्ययस्य अनुमानं कृतम् अस्ति।
विपक्षस्य मौनम्, पर्यावरण-विदुषां विकल्प-याचना
अस्याः परियोजनायाः स्वीकृत्या सहैव अस्याः विरोध-स्वराः अपि तीव्राः जाताः, किन्तु किमपि विरोधी-दलं वक्तुं सन्नद्धं नास्ति। पर्यावरण-प्रेमिणां दृढः विश्वासः अस्ति यत् पर्यावरण-वैज्ञानिकानां परामर्शान् अनुसृत्य अस्याः सञ्चरण-पङ्क्त्याः अन्य-विकल्पः अन्वेष्टव्यः येन प्रकृति-मानवयोः क्षतिः न भवेत्। लाहुल-स्पीति-मण्डलस्य केषुचित् स्थानेषु सर्वेक्षणं भूमि-मापनं च कृतम्। कैथल-विद्युत्-ग्रिड्-कृते भूमि-अधिग्रहण-प्रक्रिया २०२७ पर्यन्तं पूर्णीभविष्यति, यतः अस्य सम्पूर्ण-प्रकल्पस्य समापनेः लक्ष्यं २०२९ पर्यन्तं निर्धारितम् अस्ति।
वयं विकास-विरोधिन: न, सर्वकारः विकल्पं पश्येत् — ब्रिगेडियर-खुशहाल-ठाकुरः
कारगिल-विजयी सेवानिवृत्त-ब्रिगेडियर-खुशहाल-ठाकुरः अकथयत् यत् सौर-ऊर्जा-प्रकल्पस्य विद्युत्-सञ्चरण-पङ्क्त्याः विषयः अतीव गम्भीरः अस्ति। सः अवदत्— “वयं विकासस्य विरोधिन: न स्मः, किन्तु सर्वकारेण अस्य पुनर्परीक्षणं (Review) कर्तव्यम् तथा च विकल्पेषु कार्यं करणीयम्। मण्डी-कुल्लू-जनपदानां जनानां भूमयः पूर्वमेव चतुष्पथ-मार्गे (फोरलेन) रेल-मार्गे च गताः। अधुना एतादृश्याः बृहत्-पङ्क्त्याः कृते अपि यदि भूमयः अधिग्रहीष्यन्ते, तर्हि जनानां समीपे किमपि न अवशिष्यते; सहैव अत्रत्यं सौन्दर्यं विनङ्क्ष्यति।”
मनाली-नगर्याः पर्यटन-प्रतिष्ठा भविष्यति प्रभाविता
यदा इयं पङ्क्तिः विश्व-प्रसिद्धात् पर्यटन-नगरात् मनाली-तः गमिष्यति, तदा सहस्रशः वृक्षाणां बलिदानं भविष्यति, प्राकृतिक-सौन्दर्ये च ग्रहणं लगिष्यति। देवदारु-वृक्षैः हिमाच्छादित-शिखरैश्च शोभितेषु पर्वतेषु विशालाः स्तम्भाः (Towers) तन्त्रय: (Wires) च मनाली-क्षेत्रस्य पर्यटन-प्रतिष्ठां सौन्दर्यं च दूषयिष्यन्ति।
