संस्कृतप्रतिभाखोज प्रतियोगितायां प्रतिभानां प्रदर्शनम्
हिमसंस्कृतवार्ताः — उत्तरप्रदेशसंस्करणम्
कुशीनगर। उत्तरप्रदेशसंस्कृतसंस्थानस्य, लखनऊस्य तत्त्वावधाने मल्लूडीहस्थिते कृषक इण्टरमीडिएट कॉलेजे जनपदस्तरीय-संस्कृतप्रतिभाखोजप्रतियोगिता–२०२६ आयोजिताभवत्। प्रतियोगितायां जनपदस्य विभिन्नविद्यालयेभ्यः समागतैः विद्यार्थिभिः उत्साहपूर्वकं सहभागित्वं कृत्वा संस्कृतभाषायां स्वप्रतिभायाः उत्कृष्टं प्रदर्शनं कृतम्।
संस्कृतसामान्यज्ञानप्रतियोगितायां कृषक इण्टर कॉलेज, मल्लूडीहस्य छात्रा अमृता सिंह प्रथमस्थानं प्राप्तवती। सेठ एम.आर. जयपुरिया स्कूल, पडरौनायाः छात्रा अंशिका गुप्ता द्वितीयस्थानं तथा कृषक इण्टर कॉलेज, मल्लूडीहस्य छात्रः सनी शर्मा तृतीयस्थानं प्राप्तवान्। अञ्चल गोण्ड, अनुकल्प पाण्डेय तथा आरव तुलस्यान सांत्वनापुरस्कारैः सम्मानिताः।
संस्कृतगीतप्रतियोगितायां श्रीनाथ संस्कृत उच्चतर माध्यमिक विद्यालय, हाटायाः छात्रः सुधीर तिवारी प्रथमस्थानं प्राप्तवान्। सेठ एम.आर. जयपुरिया स्कूल, पडरौनायाः छात्रः सिद्धार्थ सिंह द्वितीयस्थानं तथा कृषक इण्टरमीडिएट कॉलेज, मल्लूडीहस्य छात्रा रिया कुमारी तृतीयस्थानं प्राप्तवती। करिश्मा, विक्रम शुक्लः तथा प्रीतमकुमारमिश्रः सांत्वनापुरस्कारैः सम्मानिताः।
कार्यक्रमस्य मुख्यातिथिः माध्यमिकशिक्षापरिषदः गोरखपुरमण्डलस्य सहायकसचिवः तथा संस्कृतपाठशालानाम् उपनिरीक्षकः डॉ. अविनाशपतितिवारी आसीत्। विशिष्टातिथिरूपेण प्रधानाचार्यः तथा संस्कृतशिक्षकसंघस्य जिलाध्यक्षः डॉ. कमलेशकुमारमिश्रः उपस्थितः आसीत्। पाण्डेयगुटस्य जिलाध्यक्षः, साहित्यविद् तथा साहित्यकारः नन्दापाण्डेयः अपि कार्यक्रमे उपस्थितः आसीत्।
प्रतियोगितायाः निर्णायकमण्डले डॉ. राकेशकुमारतिवारी, डॉ. प्राङ्गेशकुमारमिश्रः, डॉ. बुद्धिसागरतिवारी तथा सुधीरकुमारपाण्डेयः आसन्। निर्णायकमण्डलेन प्रतिभागिनां निष्पक्षतया मूल्याङ्कनं कृतम्।
समापनावसरे विद्यालयस्य प्रधानाचार्यः सन्तोषकुमारवर्मा अतिथीनां, निर्णायकानां, प्रतिभागिनां सहयोगिनां च प्रति धन्यवादं ज्ञापितवान्। जनपदसंयोजकेन डॉ. अरविन्दतिवारी अपि सर्वेषां प्रति आभारं व्यक्तं कृतवान्। संस्कृतभाषायाः प्रति विद्यार्थिषु वर्धमानां रुचिं प्रतिभां च प्रोत्साहयन् कार्यक्रमः सम्पन्नः।
