सुभाषितम्
अश्वं नैव गजं नैव व्याघ्रं नैव च नैव च।
अजापुत्रं बलिं दद्यात् देवा दुर्बलघातकाः॥
भावार्थः—
दुर्बलस्यैव बलिः भवति, न तु बलवतः। यथा देवताभ्यो बलिं दातुं शक्तिशालिनः अश्वाः, गजाः, व्याघ्राश्च परित्यज्य दुर्बलस्य अजपुत्रस्यैव बलिः दीयते। अत एव वस्तुतः देवताः अपि दुर्बलस्य शत्रवः भवन्ति।
तात्पर्यम्—
अस्मिन् सुभाषिते दुर्बलतायाः परिणामः अत्यन्तं मार्मिकरूपेण प्रतिपादितः अस्ति। समाजे प्रायः शक्तिशालिनः जनाः स्वहितं रक्षितुं समर्थाः भवन्ति, किन्तु दुर्बलः, असहायश्च जनः शोषणस्य लक्ष्यं भवति। अतः जीवनस्य प्रत्येकस्मिन् क्षेत्रे आत्मबलं, सामर्थ्यं, साहसं च वर्धनीयम्।
— चाणक्यनीतिः (२.१३)
प्रस्तुतिः : आचार्य अभय:
