सर्वकारेण वर्ष २०२४ कृते तेनज़िङ्ग नोर्गे राष्ट्रिय-साहसिक-पुरस्काराणां घोषणा कृता
सर्वकारेण वर्ष २०२४ कृते तेनज़िङ्ग नोर्गे राष्ट्रिय-साहसिक-पुरस्काराणां घोषणा कृता अस्ति। एते पुरस्काराः साहसिकक्षेत्रे उत्कृष्टोपलब्धियुक्तान् जनान् समाद्रियन्ते, तथा च चुनौतीपूर्ण-परिस्थितिषु सहनशक्तिम्, विपत्तिस्वीकरणक्षमताम्, सामूहिककार्यम् (टीम-वर्क), त्वरितं प्रभावकारि च निर्णयस्वीकरणक्षमतां प्रोत्साहयन्ति। एते पुरस्काराः चतुर्षु विभागेषु—स्थलीय-साहसिककार्यम्, जल-साहसिककार्यम्, वायु-साहसिककार्यम्, आजीवनोपलब्धिक्षेत्रम् च—दीयन्ते। प्रत्येकस्मै पुरस्कारविजेत्रे एका प्रतिमा, एकं प्रमाणपत्रम्, पञ्चदशलक्षं (१५ लक्षं) रूप्यकाणां पुरस्कारराशिः च प्रदास्यते।
स्थलीय-साहसिककार्य-विभागे बलजीत कौर महोदयायै स्काल्ज़ाङ्ग रिग्ज़िन् महोदयाय च, जल-साहसिककार्य-विभागे रिमो साहा महोदयाय, आजीवनोपलब्धि-विभागे च शिवप्रसादचमोली महोदयाय पुरस्कारप्रदानस्य घोषणा कृता अस्ति। एषः चयनप्रक्रिया राष्ट्रिय-चयनसमित्याः अनुशंसाम् आधृत्य अभवत्। समित्या नामाङ्कनानां मूल्याङ्कनं कृतं तथा च राष्ट्रियसम्मानप्रदानाय विजेतॄणां संस्तुतिः कृता।
एते पुरस्काराः युवासु साहसस्य, सहनशक्तेः, अनुशासनस्य, विपत्तिस्वीकरणक्षमतायाः, परस्परसहयोगस्य भावनां संवर्धयन्ति, तथैव च कठिनासु परिस्थितिषु शीघ्रतया प्रभावेण च प्रतिकर्तुं सामर्थ्यं प्रोत्साहयन्ति। राष्ट्रपतिः द्रौपदी मुर्मू महोदया ‘राष्ट्रिय-क्रीडा-पुरस्कार-२०२५’ इत्यनेन सह एतान् पुरस्कारान् वितरिष्यति। पुरस्कारसमारोहस्य तिथ्याः घोषणा पश्चात् भविष्यति।
सर्वकारेण वर्ष २०२४ कृते तेनज़िङ्ग नोर्गे राष्ट्रिय-साहसिक-पुरस्काराणां घोषणा कृता
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
