*गाजोलमहाविद्यालये विश्वसंस्कृतदिवसोत्सवः सम्पन्नः*
*“संस्कृतं ज्ञानस्य शाश्वतप्रकाशः”* इति सन्देशेन संस्कृतप्रेमिणां समागमः
गाजोलमहाविद्यालयस्य संस्कृतविभागस्य व्यवस्थापनेन, संस्कृतभारती–उत्तरबङ्गस्य, अखिलभारतीय-राष्ट्रीय-शैक्षिक-महासङ्घस्य (उच्चशिक्षा) तथा अखिलभारतीय-विद्यार्थी-परिषदः, गाजोलमहाविद्यालय-शाखायाः सहयोगेन विश्वसंस्कृतदिवसोत्सवः हर्षोल्लासेन, गरिमापूर्णेन च वातावरणेन सम्पन्नः। महाविद्यालयस्य गीताञ्जलि-सेमिनार-कक्षे २८ अगस्त २०२६ दिनाङ्के अपराह्णे एकवादने कार्यक्रमस्य आयोजनम् अभवत्।
कार्यक्रमस्य अध्यक्षस्थानम् गाजोलमहाविद्यालयस्य प्राचार्यः माननीयः डॉ. मनोजकुमारभोजः अलङ्कृतवान्। मुख्यातिथिरूपेण संस्कृतभारती–उत्तरबङ्गस्य शिक्षणप्रमुखा माननीया तापसीमण्डल-महोदया तथा गाजोलमहाविद्यालयस्य दर्शनविभागस्य सहयोगी-अध्यापकः, शिक्षानुषदः अध्यक्षश्च माननीयः डॉ. निरङ्कुशचक्रवर्ती उपस्थितौ आस्ताम्।
कार्यक्रमस्य मूलभावना आसीत्—
“संस्कृतं ज्ञानस्य शाश्वतप्रकाशः” तथा
“संस्कृतस्य शाश्वततत्त्वैः ज्ञानजागरणस्य नवोदयः।”
कार्यक्रमस्य माध्यमेन संस्कृतभाषायाः प्राचीनता, वैज्ञानिकता, साहित्यिकसमृद्धिः तथा भारतीयज्ञानपरम्परायां तस्याः महत्त्वपूर्णं स्थानम् इत्येतत् विषये जनचेतनायाः प्रसारः कर्तुं प्रयत्नः कृतः। संस्कृतभाषा केवलं प्राचीनभाषा न, अपितु भारतीयज्ञान-विज्ञान-दर्शन-साहित्य-संस्कृतेः समृद्धपरम्परायाः प्रमुखा वाहिका अस्ति—इति सन्देशः कार्यक्रमे विशेषतया प्रतिपादितः।
मुख्यातिथिः माननीया तापसीमण्डल-महोदया स्वभाषणे संस्कृतस्य अध्ययन-अध्यापनयोः महत्त्वं, संस्कृतसम्भाषणस्य आवश्यकता तथा नूतनपीढ्यां संस्कृतभाषायाः प्रति अनुरागस्य सृजनम् इत्यादिविषयान् प्रकाशयितवती। संस्कृतं जनसामान्येषु अधिकाधिकं प्रचलितं भवेत् तथा छात्राः संस्कृतभाषां केवलं परीक्षाविषयरूपेण न स्वीकृत्य जीवनस्य ज्ञानपरम्परायाः महत्त्वपूर्णमाध्यमरूपेण स्वीकरोतु—इति सा आह्वानं कृतवती।
डॉ. निरङ्कुशचक्रवर्ती-महोदयेन संस्कृतस्य ज्ञानपरम्परायां योगदानं, भारतीयदर्शनस्य विकासे संस्कृतस्य भूमिका तथा आधुनिकशिक्षाक्षेत्रे संस्कृतस्य प्रासङ्गिकता इत्यादिषु विषयेषु सारगर्भितं मार्गदर्शनं प्रदत्तम्।
कार्यक्रमस्य अध्यक्षः डॉ. मनोजकुमारभोजः संस्कृतभाषायाः संरक्षण-संवर्धन-प्रचारयोः आवश्यकता प्रतिपाद्य छात्र-छात्राणां संस्कृताध्ययने सक्रियभागग्रहणाय प्रेरणां दत्तवान्। तेन उक्तं यत् संस्कृतभाषा भारतीयसंस्कृतेः मूलाधारभूता अस्ति तथा तस्याः समृद्धज्ञानसम्पदः आधुनिकसमाजाय अपि अत्यन्तं उपयोगिन्यः सन्ति।
अस्य कार्यक्रमस्य सफलतायां गाजोलमहाविद्यालयस्य संस्कृतविभागस्य अध्यापकाः डॉ. अनिमेषमण्डलः, बिलासमहलदारः, प्रभातरायः, संमित्रासरकारः तथा दर्शनविभागस्य अध्यापकः डॉ. प्रियरण्जनदाशः च विशेषतया उल्लेखनीयां भूमिकां निर्वहितवन्तः। तेषां अथकपरिश्रमेण, समर्पितसेवया, सुचिन्तितयोजनया च सम्पूर्णः कार्यक्रमः सफलतया सम्पन्नः अभवत्। कार्यक्रमस्य आयोजनात् आरभ्य व्यवस्थापनपर्यन्तं ते सर्वे निरन्तरं परिश्रमं कृत्वा समारोहस्य गरिमां वर्धितवन्तः। तेषां सामूहिकप्रयत्नेन विश्वसंस्कृतदिवसोत्सवः अत्यन्तं सफलः, सार्थकः, स्मरणीयश्च अभवत्।
कार्यक्रमस्य समापनसमये संस्कृतभाषायाः प्रति अनुरागं वर्धयितुं तथा भारतीयज्ञानपरम्परां विश्वस्तरे पुनः प्रकाशयितुं सामूहिकसङ्कल्पः अभवत्। सम्पूर्णं महाविद्यालय-परिसरं संस्कृतमयेन वातावरणेन परिपूर्णम् अभवत्।
अन्ते आयोजकैः उपस्थितेभ्यः सर्वेभ्यः अतिथिभ्यः, शिक्षकभ्यः, छात्रेभ्यः, संस्कृतप्रेमिभ्यश्च कृतज्ञता ज्ञापिता। कार्यक्रमः संस्कृतस्य गौरवपूर्णपरम्परायाः संरक्षणस्य, संवर्धनस्य, प्रचारस्य च दृढसन्देशं प्रदाय सफलतया सम्पन्नः।
*“संस्कृतं जानामः — संस्कृतं वर्धयामः — भारतीयज्ञानपरम्परां विश्वे पुनः प्रकाशयामः।”*
