हिमाचलस्य चामुण्डासंस्कृतमहाविद्यालये भाषा कला संस्कृति विभागस्य सौजन्येन राज्यस्तरीयसंस्कृतमहोत्सवस्य कार्यक्रमः जिला उपायुक्तस्य हेमराजवैरवा महोदस्य उपस्थितौ सम्पन्नः
संस्कृतदिवसस्य अवसरे हिमाचलप्रदेशस्य भाषाकलासंस्कृतिविभागेन कांगड़ामण्डलस्य प्रसिद्धे चामुण्डा स्थिते संस्कृतमहाविद्यालये राज्यस्तरीयसंस्कृतमहोत्सवस्य आयोजनं कृतम्। अस्मिन् कार्यक्रमे कांगड़ामण्डलस्य उपायुक्तः हेमराजवैरवः मुख्यातिथिारूपेण उपस्थितः आसीत्। वैरवः स्वोद्बोधने अवदत् यत् संस्कृतभाषा केवलम् इतिहासस्य स्मरणार्थं न भवति, अपितु वर्तमानपरिप्रेक्ष्ये भारतीयज्ञानपरम्परया सह संयोजनं तथा च नवाचारयुगे अस्याः प्रासङ्गिकता अनिवार्या अस्ति। सः प्रसत्रतां प्रकटयन् अकथयत् यत् भाषाविभागस्य राज्यस्तरीयकार्यक्रमाः प्रायः शिमलायाम् एव आयोज्यन्ते स्म, परन्तु अस्मिन् काले शिमलातः कांगड़ायाम् आयोजनम् अभिनवः प्रयोगः अस्ति। कार्यक्रमे केन्द्रीयसंस्कृतविश्वविद्यालयस्य बलाहरपरिसरस्य निदेशिका प्रो. सत्यमकुमारी विशिष्टातिथिारूपेण उपस्थिता आसीत्। सा संस्कृतस्य सर्वेषु कार्यक्रमेषु स्वोपस्थितिं सुनिश्चितं कारितवती। सा संस्कृतं धर्मार्थकाममोक्षाणां साधनम् उक्त्वा अवदत् यत् केन्द्रीयसंस्कृतविश्वविद्यालये संस्कृते भारतीयज्ञानपरम्परायां बलम् दत्त्वा आयुर्वेदः, योगः, ए.आइ. (AI) इत्यादीनां विषयाणां सह संयोजनं क्रियते। सा छात्रान् प्रेरयन् अवदत् यत् छात्राः पाण्डुलिपीनाम् आधारेण शोधकार्याय अग्रे आगच्छन्तु, येन पाण्डुलिपीनां ज्ञानं प्रकाशम् आगच्छेत्। प्रथमसत्रे मुख्यवक्तारूपेण काशीहिन्दूविश्वविद्यालयस्य आचार्यः वर्तमानसन्दर्भे संस्कृतस्य वैज्ञानिकता तथा प्रासङ्गिकता अस्मिन् विषये व्याख्यानं दत्तवान्। सत्रस्य समाप्ताने भाषाविभागस्य साहायकनिदेशकः सुरेशराणा आमंत्रितान् सर्वान् अतिथीन् हिमाचलस्य शाटिकया टोपिकया स्मृतिचिह्नेन च सम्मानितवान्। प्रथमसत्रस्य कुशलसंचालनं ऊनामण्डलस्य भाषाधिकारी निक्कुरमः कृतवान्। अस्मिन् अवसरे भाषाविभागेन चामुण्डासंस्कृतमहाविद्यालयस्य प्राचार्यस्य हरीशशर्मणः कार्यक्रमस्य समस्तव्यवस्थायाः कृते विशेषः आभारः प्रकटितः। कार्यक्रमे जिला भाषाधिकारी कांगड़ा अमित गुलेरी महोदयः सर्वेषाम् आभारं प्रकटितवान्।
संस्कृतमहाविद्यालयानां छात्राणां प्रतियोगिताः
कार्यक्रमस्य द्वितीयसत्रे संस्कृतस्य अन्तरमहाविद्यालयीया भाषण-, प्रश्नोत्तरी-, अनुवाद-, श्लोकोच्चारणप्रतियोगितानाम् आयोजनं कृतम्, यत्र प्रदेशस्य १५ संस्कृतमहाविद्यालयानां लगभग १०० प्रतिभागियों भागं गृहीतवन्तः।
श्लोकोच्चारणप्रतियोगितायाम्: गुंजन (राजकीयसंस्कृतमहाविद्यालयः, तूंगेश, शिमला) प्रथमस्थानम्, अनुराधा (सनातनधर्मआदर्शसंस्कृतमहाविद्यालयः, डोहगी, ऊना) द्वितीयस्थानम्, कोमलशर्मा (केन्द्रीयविश्वविद्यालयवेदव्यासपरिसरः, बलाहर, कांगड़ा) तृतीयस्थानम्, सुहानी (राजकीयसंस्कृतमहाविद्यालयः, चम्बा) सांत्वनापुरस्कारं च प्राप्तवती।
संस्कृतभाषणप्रतियोगितायाम्: ऋषभ (गोरक्षकराजकीयसंस्कृतमहाविद्यालयः, नाहन, सिरमौर) प्रथमस्थानम्, आशीषचौहान (केन्द्रीयसंस्कृतविश्वविद्यालयः, बलाहर, कांगड़ा) द्वितीयस्थानम्, नीरज (त्रिगर्तसंस्कृतमहाविद्यालयः, चामुण्डा, कांगड़ा) तृतीयस्थानम्, योगिता (राजकीयमहाविद्यालयः, सुन्दरनगरः, मण्डी) नेहा च (राजकीयसंस्कृतमहाविद्यालयः, चम्बा) सांत्वनापुरस्कारं प्राप्तवत्यौ।
संस्कृतप्रश्नोत्तरीप्रतियोगितायाम्: सचिन (संस्कृतमहाविद्यालयः, तुंगेश, शिमला), अपेक्षा (राजकीयसंस्कृतमहाविद्यालयः सुन्दरनगरः, मण्डी) तथा सुहानी (राजकीयसंस्कृतमहाविद्यालयः, दोहगी, ऊना) संयुक्ततया प्रथमस्थानम्; नेहा (राजकीयमहाविद्यालयः, चम्बा) तमन्ना च (राजकीयमहाविद्यालयः, डोहगी, ऊना) द्वितीयस्थानम्; सानिया (राजकीयमहाविद्यालयः सुन्दरनगरः, मण्डी) खुशी च (संस्कृतमहाविद्यालयः, चकमोह, हमीरपुरः) तृतीयस्थानम् प्राप्तवत्यौ।
अनुवादलेखनप्रतियोगितायाम्: स्नेहावर्मा (राजकीयसंस्कृतमहाविद्यालयः, तुगेश, शिमला) प्रथमस्थानम्, काजलगाल्टा (आदर्शसंस्कृतमहाविद्यालयः, जांगला, रोहड़ू, शिमला) द्वितीयस्थानम्, मनीषागोस्वामी (केन्द्रीयविश्वविद्यालयः, धर्मशाला, कांगड़ा) तृतीयस्थानम्, देवांशः च (संस्कृतमहाविद्यालयः, चामुण्डा, कांगड़ा) सांत्वनापुरस्कारं प्राप्तवान्।
संस्कृतकविसंगोष्ठ्याः सर्वेषां श्रोतृणां मनांसि जितानि
अस्मिन् अवसरे हिमाचलसंस्कृत-अकादमीतः पूर्वसचिवः डॉ. मस्तरामशर्मा जगतप्रसादशास्त्री च इत्येतयोः अध्यक्षतायां कवीनां सम्मेलनम् आयोजितम्, यत्र प्रदेशस्य लगभग २० संस्कृतकवयः भागं गृहीतवन्तः। काव्यसंगोष्ठ्यां डॉ. मदनमोहनशास्त्री (सोलन), डॉ. सन्तोषकुमार (शिमला), डॉ. मनोजकुमार (मण्डी), डॉ. अमितशर्मा (हमीरपुरः), डॉ. अमनदीपशर्मा (धर्मशाला), डॉ. पंकज (बलाहर), डॉ. श्रीधरद्विवेदी (बलाहर), डॉ. रूपलालजांग्ला, डॉ. रितेशशर्मा (सरैन), डॉ. मु बढ़कुमार (डोहगी), शास्त्रीहिमांशु (मण्डी), आचार्यरत्नचन्द (हमीरपुरः), नरेशमलोटिया (हमीरपुरः), डॉ. मनोजकुमार (धर्मशाला), विमलादेवा (चम्बा) उपस्थिताः आसन्, ये संस्कृते छन्दोबद्धपद्यानां वाचनं कृतवन्तः। कभिसम्मेलनस्य अन्ते डॉ. मुकेशः सर्वेषां कवीनां प्रयासान् एकस्मिन् काव्ये रचितवान्, यः श्रोताभिः प्रशंसितः। कविमण्डलस्य अध्यक्षीयभाषणे डॉ. मस्तरामः छात्रान् कथाप्रसङ्गानां माध्यमेन काव्यस्य महत्त्वं लेखनस्य च विद्यां परिचायितवान्। कविमञ्चस्य संचालनं केवलशास्त्रिणा कृतम्।
अस्मिन् अवसरे राज्यअभिलेखागारेण ऐतिहासिकदुर्लभपत्राणां प्रदर्शनी तथा हिमाचलकलासंस्कृतिभाषाअकादमीतः पुस्तकप्रदर्शनी अपि आयोजिता। पुस्तकप्रदर्शनीयाम् पाठकानाम् साहित्यप्रेमिणां कृते हिमाचलस्य इतिहासस्य, कलायाः, संस्कृतेः, विरासतस्य च सम्बद्धाः पुस्तकानि विक्रीयार्थम् उपलब्धानि आसन्।
