‘श्रेष्ठशाला-सन्दर्शनम्’ अन्तर्गतं श्रीसोनारी-प्राथमिकविद्यालयस्य सन्दर्शनम्
वार्ताहर: – जगदीश डाभी, गुजरातम्
(गुर्जरप्रान्तवार्ता:, हिमसंस्कृतवार्ता:) अद्य गुजरातराज्यस्य गीर सोमनाथजनपदस्य श्रीसोनारी-प्राथमिकविद्यालये ‘श्रेष्ठशाला-सन्दर्शनम्’ इत्यन्तर्गतं गिरसोमनाथ-जनपदस्य वेरावल-सूत्रापाडा-कोडिनार-त्रयाणां तालुकानां प्रायः २४० प्रधानाचार्यैः श्रीसोनारी-प्राथमिकविद्यालयस्य सन्दर्शनं कृतम्।
गिरसोमनाथ-जनपदस्य DIET-संस्थायाः प्राचार्येण श्री पम्पाणिया-महोदयेन विद्यालयस्य विकासे प्रधानाचार्यस्य भूमिकाविषये विस्तृततया मार्गदर्शनं प्रदत्तम्। विद्यालयस्य प्रधानाचार्यया विजयाबेन-चुडासमा-महोदयया सर्वेषां आगन्तुकानां प्रधानाचार्याणां हार्दिकं स्वागतं कृतम्। ततः तया विद्यालयेन क्रियमाणानां विविधानां श्रेष्ठकार्याणां परिचयः प्रदत्तः।
विद्यालयस्य विशेषतया प्रेरणादायिनी व्यवस्था एषा अस्ति यत् विद्यालयस्य शिक्षकाणां बालकाः अपि अस्मिन्नेव विद्यालये अध्ययनं कुर्वन्ति। तदतिरिक्तं समीपस्थेषु त्रयोदशपर्यन्तेषु ग्रामेषु निवसतां बालकानाम् अपि अत्र अध्ययनस्य अवसरः प्राप्यते। नायब-मामलतदारस्य बालकात् आरभ्य झोपडपट्टिकायां निवसतां बालकानां पर्यन्तं सर्वे बालकाः अत्र समानतया सह अध्ययनं कुर्वन्ति। विद्यालयस्य प्रधानाचार्यया एतादृश्यः अनेकाः प्रेरणादायिन्यः विषयाः प्रस्तुताः। आगन्तुकैः प्रधानाचार्यैः विद्यालयस्य शैक्षणिकानां भौतिकानां च विविधप्रवृत्तीनां निरीक्षणं कृतम्।
श्रीसोनारी-प्राथमिकविद्यालयस्य श्रेष्ठाः शैक्षणिकपद्धतयः, कक्षायाः शैक्षणिकं वातावरणम्, अभिनव-परियोजनाः, क्रीडाः, विद्यालयस्य भौतिकं संरचनात्मकं च स्वरूपं तथा विविधाः सुविधाः च आगन्तुकैः प्रधानाचार्यैः प्रत्यक्षतया निरीक्षिताः। उपस्थितैः सर्वैः प्रधानाचार्यैः विद्यालयस्य व्यवस्थापनम्, गुणवत्तापूर्णं शिक्षणम्, उत्तमाः कार्यपद्धतयः च विषये परस्परं विचाराणाम् आदान-प्रदानं कृतम्।
अनेन सन्दर्शनेन अन्येषां विद्यालयानाम् अपि श्रीसोनारी-प्राथमिकविद्यालयस्य विविधाः शैक्षणिकाः गतिविधयः तथा उत्तमाः कार्यपद्धतयः प्रेरणाप्रदाः भविष्यन्ति। सम्पूर्णः कार्यक्रमः सौहार्दपूर्णे वातावरणे सफलतया सम्पन्नः।
