रक्षाबन्धनस्य शास्त्रीयस्वरूपम् आधुनिकसन्दर्भे तन्महत्त्वञ्च
लेखिका
डॉ. सुमन रानी
अध्यक्षा , स्वामी – दयानन्द -सरस्वती – पीठ : , हरियाणा केन्द्रीय: विश्वविद्यालयः, महेन्द्रगढ़म्
भारतीयसंस्कृतिः पर्वणां संस्कृतिः अस्ति। अस्माकं प्रत्येकं पर्व केवलम् उत्सवस्वरूपं न भवति, अपितु जीवनमूल्यानां, संस्काराणां, कर्तव्यबोधस्य, सामाजिकसमरसतायाः च प्रेरणां ददाति। तादृशेषु महत्त्वपूर्णेषु पर्वसु रक्षाबन्धनपर्व अपि प्रमुखम् अस्ति। एतत् पर्व भ्रातृ-भगिन्योः पवित्रस्नेहस्य, परस्परविश्वासस्य, मंगलकामनायाः, संरक्षणस्य च भावनां सुदृढं करोति।
रक्षाबन्धनस्य भावः केवलं भ्रात्रे भगिन्या रक्षासूत्रबन्धनपर्यन्तं सीमितः नास्ति। भारतीयपरम्परायां ‘रक्षा’ इति शब्दस्य अर्थः अत्यन्तं व्यापकः अस्ति। धर्मस्य, सत्यस्य, संस्कृतेः, परिवारस्य, समाजस्य, पर्यावरणस्य, राष्ट्रस्य च संरक्षणम् अपि रक्षायाः अन्तर्गतं भवति।
वैदिक वाङ्मये मनुष्यस्य कल्याणाय, आरोग्याय, दीर्घायुषे, अभयाय, समृद्धये च अनेकाः मंगलकामनाः प्राप्यन्ते। विशेषतः अथर्ववेदे रक्षासम्बद्धाः मन्त्राः विविधेषु सन्दर्भेषु दृश्यन्ते। वैदिकजीवने मन्त्रैः, यज्ञैः, आशीर्वादैः, मंगलसंकल्पैश्च जनानां कल्याणस्य तथा संरक्षणस्य भावना अभिव्यज्यते।
अतः हस्ते बध्यमानं रक्षासूत्रं केवलं सूत्रखण्डमात्रं नास्ति, अपितु शुभसंकल्पस्य, मंगलकामनायाः, उत्तरदायित्वस्य च प्रतीकमपि अस्ति।
रक्षासूत्रस्य प्रत्येकं तन्तुः मन्ये अस्मान् स्मारयति यत्—अस्माभिः स्वकीयसम्बन्धानां, संस्काराणां, कर्तव्यानां, जीवनमूल्यानां च संरक्षणं कर्तव्यम्।
श्रावणपूर्णिमायाः महत्त्वम्-
रक्षाबन्धनपर्व श्रावणमासस्य पूर्णिमायां तिथौ आचर्यते। श्रावणपूर्णिमा भारतीयधार्मिकपरम्परायां विशेषमहत्त्वं भजते । अस्यां तिथौ प्राचीनकाले वेदाध्ययनस्य, ऋषिस्मरणस्य, उपाकर्मणः, यज्ञोपवीतसम्बद्धानां च धार्मिकानुष्ठानानां परम्परा आसीत्।
अतः श्रावणपूर्णिमायाः स्वरूपं केवलं पारिवारिकपर्वरूपेण नास्ति, अपितु अध्ययनस्य, संस्कारस्य, आत्मशुद्धेः, ऋषिपरम्परायाः, धार्मिककर्तव्यस्य च दिवसः अपि अस्ति।
शास्त्रेषु रक्षासूत्रस्य परम्परा-
भारतीयधार्मिकानुष्ठानेषु रक्षासूत्रबन्धनस्य परम्परा प्राचीनकालादेव दृश्यते। यज्ञेषु, मांगलिककार्येषु तथा विविधेषु संस्कारकर्मसु आचार्यः यजमानस्य हस्ते रक्षासूत्रं बध्नाति। तस्य मुख्यो भावः भवति—मंगलस्य, धर्मस्य, स्वास्थ्यस्य, आयुषः, कल्याणस्य च कामना।
रक्षासूत्रबन्धनसमये मनसि एषः संकल्पः भवेत्—
“अहं धर्मे, सत्ये, सदाचारे च दृढतया स्थितः भविष्यामि। स्वस्य तथा स्वकीयानां कल्याणाय यथाशक्ति प्रयत्नं करिष्यामि।”
अतः रक्षासूत्रं कर्तव्यबोधस्य अपि प्रतीकम् अस्ति।
पौराणिकपरम्परायां रक्षाबन्धनम्-
रक्षाबन्धनस्य सम्बन्धेन भारतीयलोकपरम्परायां विविधाः पौराणिककथाः प्रचलिताः सन्ति। तासु देवराजस्य इन्द्रस्य तथा शच्याः कथा प्रसिद्धा अस्ति। कथानुसारं देवासुरसंग्रामे शच्या इन्द्रस्य विजयाय रक्षासूत्रं बद्धम्।
एषा कथा अस्मान् बोधयति यत् रक्षासूत्रं अभयस्य, आत्मविश्वासस्य, विजयस्य, मंगलसंकल्पस्य च प्रतीकम् अस्ति।
तथैव राजा बलि-वामनावतारयोः कथाः अपि रक्षाबन्धनस्य लोकपरम्परायां प्रसिद्धः वर्तते । एतासां कथानां मूलसन्देशः अस्ति यत् रक्षा केवलं शरीरस्य न भवति, अपितु धर्मस्य, सत्यस्य, कर्तव्यस्य, सदाचारस्य च अपि आवश्यकी अस्ति।
रक्षाबन्धनस्य सामान्यविधिः-
रक्षाबन्धनदिने प्रातःकाले स्नानं कृत्वा शुद्धानि वस्त्राणि धारयेत्। गृहं स्वच्छं कृत्वा इष्टदेवस्य पूजनं स्मरणं वा कुर्यात्। ततः रक्षाबन्धनस्य विधिः सामान्यतः एवं भवति—
भ्राता अथवा यस्य हस्ते रक्षासूत्रं बन्धनीयं सः शुद्धे आसने उपविशेत्।
इष्टदेवस्य, कुलदेवतायाः, परमात्मने च स्मरणं कुर्यात्।
भ्रातुः ललाटे तिलकं धारयेत्।
अक्षतान् पुष्पाणि च समर्पयेत्।
दक्षिणहस्तस्य मणिबन्धे रक्षासूत्रं बध्नीयात्।
मंगलभावनया आरतीं कुर्यात्।
मधुरपदार्थेन परस्परं मुखं मधुरं कुर्यात्।
भगिनी भ्रातुः दीर्घायुः, आरोग्यं, यशः, सुखं, समृद्धिं च कामयेत्।
भ्राता अपि भगिन्याः सम्मानस्य, सुरक्षायाः, सुखस्य च संरक्षणाय संकल्पं कुर्यात्।
रक्षासूत्रबन्धनसमये प्रसिद्धः श्लोकः—
*येन बद्धो बली राजा दानवेन्द्रो महाबलः।
तेन त्वामपि बध्नामि रक्षे मा चल मा चल।।*
अस्य भावार्थः— येन रक्षासूत्रेण महाबलवान् दानवेन्द्रः राजा बलिः बद्धः आसीत्, तेनैव रक्षासूत्रेण अहं त्वां बध्नामि। हे रक्षे! त्वं स्थिरा भव, स्थिरा भव।.
रक्षाबन्धनस्य महत्त्वं केवलं भ्रातृ-भगिनीसम्बन्धे सीमितं नास्ति, अपितु भारतीयपरम्परायां गुरु-शिष्ययोः, सामाजिकजनानां, मित्राणां, सैनिकानां, राष्ट्रसेवकानां च मध्ये अपि रक्षासूत्रबन्धनस्य परम्परा विकसिताभवत्।
अतः रक्षाबन्धनम् सामाजिकैकतायाः, भ्रातृत्वस्य, सौहार्दस्य, परस्परविश्वासस्य च पर्व अस्ति।
अस्मिन् पर्वणि समाजे दुर्बलानां संरक्षणम्, वृद्धानां सेवा, बालिकानां सुरक्षा, नारीणां सम्मानः, राष्ट्रस्य एकता, पर्यावरणस्य संरक्षणं च अस्माकं रक्षासंकल्पस्य भागाः भवेयुः।
नारीसम्मानस्य सन्देशः-
रक्षाबन्धनस्य आधुनिकसन्दर्भे एकः महत्त्वपूर्णः संदेशः अस्ति—नारीसम्मानः।
भगिनी केवलं रक्षणस्य अधिकारिणी नास्ति, सा परिवारस्य, समाजस्य, संस्कृतेः च निर्माणे महत्त्वपूर्णां भूमिकां निर्वहति। अतः रक्षाबन्धनस्य वास्तविकः संकल्पः भवेत्—
“वयं परस्परं सम्मानं, स्वाभिमानं, गरिमां, अधिकारान् च रक्षिष्यामः।”
यत्र नारी सम्मानिता भवति, तत्रैव परिवारः, समाजः, राष्ट्रं च सुदृढं भवति।
पर्यावरणसंरक्षणस्य सन्देशः-
भारतीयसंस्कृतौ प्रकृतिः मातृरूपेण पूज्यते। वृक्षाः, नद्यः, पर्वताः, भूमिः, वायुः, जलं च अस्माकं जीवनस्य आधारभूतानि तत्त्वानि सन्ति।
अतः रक्षाबन्धनदिने वृक्षेभ्यः रक्षासूत्रं बद्ध्वा तेषां संरक्षणस्य संकल्पः करणीयः। जलसंरक्षणम्, वृक्षारोपणम्, नदीनां स्वच्छता, पर्यावरणसंरक्षणं च अस्माभिः आचरणीयम्।
एवं च रक्षाबन्धनस्य सूत्रं मानवस्य प्रकृत्या सह आत्मीयसम्बन्धमपि दृढीकरोति।
आधुनिकयुगे रक्षाबन्धनस्य प्रासङ्गिकता-
अद्य विज्ञानस्य प्रौद्योगिक्याश्च विकासेन मानवजीवनं सुखकरं जातम्, किन्तु पारिवारिकदूरत्वं, सामाजिकएकाकित्वं, पर्यावरणसंकटं, अवसादः, मानवीयसंवेदनानां ह्रासः च आधुनिकसमाजस्य प्रमुखाः समस्याः सन्ति।
अस्मिन् सन्दर्भे रक्षाबन्धनम् अस्मान् स्मारयति—
प्रेमभावस्य रक्षणं कुर्याम।
विश्वासस्य रक्षणं कुर्याम।
संस्काराणां रक्षणं कुर्याम।
कर्तव्यस्य रक्षणं कुर्याम।
प्रकृतेः संरक्षणं कुर्याम।
समाजस्य राष्ट्रस्य च परिपालनं कुर्याम।
एवमेव रक्षाबन्धनोत्सवः न केवलमत्सवमात्रं भवति, अपितु जीवनमूल्यानां पुनः स्मरणस्य पवित्रः अवसरः अपि भवति।
उपसंहारः-
रक्षाबन्धनं भारतीयसंस्कृतेः अत्यन्तं पवित्रं, भावपूर्णं, जीवनमूल्यसमन्वितं च पर्व अस्ति। वैदिकपरम्परायां विद्यमानया मंगलकामनया, रक्षासूत्रपरम्परया, शास्त्रीयसंस्कारैः, पौराणिककथाभिः, भ्रातृ-भगिन्योः स्नेहेन च अस्य स्वरूपं समृद्धं जातम्।
हस्ते प्रतिबद्धं लघुरक्षासूत्रं वस्तुतः महत्तरस्य संकल्पस्य प्रतीकम् अस्ति। एतद् अस्मान् बोधयति यत्—जीवने अधिकारैः सह कर्तव्याः अपि सन्ति, प्रेम्णा सह उत्तरदायित्वम् अपि अस्ति, सम्बन्धैः सह संरक्षणस्य भावनाऽपि वर्तते ।
अतः अस्मिन् रक्षाबन्धनपर्वणि वयं केवलं रक्षासूत्रं न बध्नीयाम, अपितु हृदये प्रेम्णः, सत्यस्य, धर्मस्य, संस्कृतेः, नारीसम्मानस्य, सामाजिकसमरसतायाः, पर्यावरणसंरक्षणस्य, राष्ट्रनिष्ठायाश्च दृढं सूत्रं बध्नीयाम।
अयमेव रक्षाबन्धनस्य वास्तविकः सन्देशः।
अयमेव भारतीयसंस्कृतेः शाश्वतः संस्कारः।
“सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः।
सर्वे भद्राणि पश्यन्तु, मा कश्चिद् दुःखभाग्भवेत्॥”
रक्षाबन्धनस्य हार्दिकाः मंगलकामनाः।
रक्षाबन्धनस्य शास्त्रीयस्वरूपम् आधुनिकसन्दर्भे तन्महत्त्वञ्च
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
