रोहितठाकुरः अवदत् — प्रदेशस्य ९,६१७ विद्यालयेषु प्रथम-कक्षायाः एव आङ्ग्ल-माध्यमस्य विकल्पः उपलब्धः
हिमसंस्कृतवार्ता — शिमला।
शिक्षा-मन्त्री रोहितठाकुरः न्यवेदयत् यत् सम्प्रति प्रदेशस्य सर्वेषु ९,६१७ सर्वकारीय-प्राथमिक-विद्यालयेषु आङ्ग्ल-माध्यमेन शिक्षणं प्रदीयमानम् अस्ति। एतेषु सर्वेषु विद्यालयेषु हिन्दी-माध्यमस्य विकल्पः अपि उपलब्धः वर्तते।
बिलासपुर-मण्डले – ५२६ विद्यालयाः
चम्बा-मण्डले- ११३६ विद्यालयाः
हमीरपुर-मण्डले – ४२५ विद्यालयाः
काङ्गड़ा-मण्डले – १४६५ विद्यालयाः
किन्नौर-मण्डले – १४० विद्यालयाः
कुल्लू-मण्डले – ७१९ विद्यालयाः
लाहुल-स्पीति-मण्डले – १५२ विद्यालयाः
मण्डी-मण्डले – १५२१ विद्यालयाः
शिमला-मण्डले – १३४२ विद्यालयाः
सिरमौर-मण्डले – ९९८ विद्यालयाः
सोलन-मण्डले – ७२५ विद्यालयाः
ऊना-मण्डले – ४६८ विद्यालयाः
एतेषु सर्वेषु प्राथमिक-विद्यालयेषु एषा व्यवस्था प्रवर्तिता अस्ति।
विद्यार्थिभिः स्वीकृतम् आङ्ग्ल-माध्यमम्
भारतीय-जनता-पक्षस्य (भाजपा) विधायकस्य डॉ. जनकराजस्य प्रश्नस्य लिखित-सूचनां यच्छन् शिक्षा-मन्त्रिणा प्रोक्तं यत् ३ जनवरी २०२४ दिनाङ्कस्य निर्णयानुसारं छात्रेभ्यः पालकेभ्यश्च पूर्वमेव हिन्दी-आङ्ग्ल-माध्यमयोः अन्यतरस्य चयनस्य विकल्पः प्रदत्तः आसीत्। वर्त्तमान-समये सर्वेषु विद्यालयेषु विद्यार्थिभिः आङ्ग्ल-माध्यममेव स्वीकृतम्।
