अखिलभारतीयसंस्कृतपरिषदि संस्कृतसप्ताहमहोत्सवः सम्पन्नः
हिमसंस्कृतवार्ताः — सत्येन्द्रपाठकः, लखनऊ।
लखनऊ, २२ अगस्त २०२६। अखिलभारतीयसंस्कृतपरिषदः, अलीगञ्ज, लखनऊ इत्यस्य तत्त्वावधानेन द्विदिवसीयः संस्कृतसप्ताहमहोत्सवः भव्यतया सम्पन्नः। महोत्सवस्य प्रथमदिने २१ अगस्ते छात्राणां कृते संस्कृतबालगीतप्रतियोगिता तथा वरिष्ठछात्राणां कृते उच्चस्तरीया संस्कृत-आशुभाषणप्रतियोगिता आयोजिते आस्ताम्। द्वितीयदिने २२ अगस्ते ‘भारतीयसंस्कृतेः सन्दर्भे संस्कृत-श्रावणी-उपाकर्म, संस्कृतदिवस, रक्षाबन्धनं वेदपाठशाला च’ इति विषये विशिष्टव्याख्यानस्य आयोजनम् अभवत्।
प्रथमदिने लखनऊनगरस्य सरस्वतीविद्यामन्दिरम्, सेक्टर-क्यू, अलीगञ्ज तथा जूनियर बेसिक प्राइमरी पाठशाला, छोटी लालकुर्ती, कैण्ट इत्यादिभ्यः विद्यालयेभ्यः प्रायः चत्वारिंशत् छात्राः सहभागितां कृतवन्तः। लखनऊविश्वविद्यालयस्य संस्कृत-प्राकृतभाषाविभागात् तथा ज्योतिर्विज्ञानविभागात् अपि प्रायः पञ्चाशत् विद्यार्थिनः उपस्थिताः आसन्।
संस्कृतबालगीतप्रतियोगितायां बालप्रतिभाभिः सुमधुरस्वरेण संस्कृतगीतानि प्रस्तुतानि, वरिष्ठछात्रैश्च आशुभाषणप्रतियोगितायां स्वीयवाक्पटुतायाः भाषिकप्रतिभायाश्च परिचयः प्रदत्तः। प्रतियोगितयोः निर्णायकत्वेन डॉ. रेखाशुक्ला, प्रो. सत्यकेतुः तथा डॉ. गौरवसिंहः दायित्वं निर्वहितवन्तः।
प्रतियोगितयोः विजेतृभ्यः प्रथमपुरस्कारः ११०० रुप्यकाणि, द्वितीयपुरस्कारः ७०० रुप्यकाणि, तृतीयपुरस्कारः ५०० रुप्यकाणि तथा सान्त्वनापुरस्कारः २५१ रुप्यकाणि निर्धारिताः आसन्। द्वितीयदिने आयोजिते कार्यक्रमे विजेतृभ्यः पुरस्काराः प्रदत्ताः।
महोत्सवस्य द्वितीयदिने ‘भारतीयसंस्कृतेः सन्दर्भे संस्कृत-श्रावणी-उपाकर्म, संस्कृतदिवस, रक्षाबन्धनं वेदपाठशाला च’ इति विषये विशिष्टव्याख्यानम् आयोजितम्। कार्यक्रमे श्रीनेत्रपालगुरुकुलवेदपाठशाला, गङ्गोत्रीविहार, कानपुर-बिठूरस्य आचार्य अम्बरीषोपाध्यायः मुख्यातिथिरूपेण उपस्थितः आसीत्। कार्यक्रमस्य अध्यक्षतां अखिलभारतीयसंस्कृतपरिषदः उपाध्यक्षः डॉ. रविकिशोरत्रिवेदी कृतवान् तथा संयोजनं परिषदः मन्त्री प्रो. प्रयागनारायणमिश्रेण कृतम्।
अस्मिन् अवसरे संस्कृत-वेदविद्यारतस्य आचार्य अम्बरीषोपाध्यायस्य विशेषसम्मानः कृतः। संस्कृतजगतः प्रति तेन समर्पणभावेन क्रियमाणां सेवां दृष्ट्वा तस्य अलङ्करणं कृतम्। आचार्येण वेदमन्त्राणां पाठः अपि प्रस्तुतः। तस्य वेदविद्यालयस्य सचिवः शुभम् शुक्लः विशिष्टवक्तृरूपेण उपस्थितः सन् कार्यक्रमस्य महत्त्वं प्रतिपादितवान्।
व्याख्याने रक्षाबन्धनस्य पौराणिकविशेषतासु तथा श्रावणी-उपाकर्मणः ऐतिहासिकप्रासङ्गिकतायां च विद्वत्तापूर्णः विचारः प्रस्तुतः। अखिलभारतीयसंस्कृतपरिषदः उपाध्यक्षः डॉ. रविकिशोरत्रिवेदी प्रशासनिकक्षेत्रे संस्कृतस्य उपयोगितां स्वीयानुभवाधारेण प्रकाशयामास।
कार्यक्रमस्य सञ्चालनं डॉ. अनिलपोरवालः कृतवान् तथा धन्यवादज्ञापनं डॉ. पत्रिकाजैनेन कृतम्। अस्मिन् अवसरे लखनऊविश्वविद्यालयस्य संस्कृतविभागस्य डॉ. गौरवसिंहः, महिला-कन्यामहाविद्यालयस्य वरिष्ठाध्यापिका डॉ. रीतूसिंहः, प्रो. रेखाशुक्ला, डॉ. नीलमा इत्यादयः अनेकाः विद्वांसः गणमान्याश्च उपस्थिताः आसन्।
कार्यक्रमस्य अन्ते प्रतियोगितासु उत्कृष्टप्रदर्शनं कृतवद्भ्यः छात्रेभ्यः पुरस्काराः प्रदत्ताः। संस्कृतभाषायाः प्रचार-प्रसारं तथा भारतीयसंस्कृतेः संरक्षणं संवर्धनं च लक्ष्यीकृतः अयं द्विदिवसीयः संस्कृतसप्ताहमहोत्सवः संस्कृतानुरागिषु छात्रेषु च उत्साहं प्रेरणां च जनयन् सफलतया सम्पन्नः।
