कर्नूल-नगरे निर्मीयमाणं ‘ड्रोन सिटी’ देशस्य प्रथमा परियोजना भविष्यति: नागरविमाननमन्त्री के. राममोहननायडू
नागरविमाननमन्त्री के. राममोहननायडू अवदत् यत् आन्ध्रप्रदेशस्य कर्नूल-मण्डलस्य ओरवाकल-स्थाने विकस्यमानं ‘ड्रोन सिटी’ इति देशे स्वप्रकारस्य प्रथमा परियोजना भविष्यति। श्रीनायडू ड्रोन-नगरस्य भ्रमणम् अकरोत्। सः द्रोण-यन्त्राणां (ड्रोन्स्) प्रदर्शनीम् अपश्यत् तथा प्रायशः ७० ड्रोन-कम्पनीनां मुख्यकार्यकारि-अधिकारिभिः (सीईओ) सह मेलनम् अकरोत्। श्रीनायडू अकथयत् यत् वर्षद्वयात् पूर्वम् अमरावती-नगरे राज्यसर्वकारस्य सहयोगेन ड्रोन-सम्मेलनम् आयोजितम् आसीत्। तस्मिन् एव समये एतादृशस्य ड्रोन-नगरस्य निर्माणस्य सङ्कल्पः कृतः, यत्र ड्रोन-प्रौद्योगिक्या सम्बद्धानि सर्वाणि क्षेत्राणि एकत्र आनेतुं शक्येरन्। सः असूचयत् यत् सुदृढ-ड्रोन-व्यवस्थायाः विकासाय प्रायः १५० कम्पनीनां मुख्यकार्यकारिभिः सह विचारविमर्शः कृतः। ड्रोन-नगरे अधुना यावत् प्रायशः पञ्चसहस्रकोटि-रूप्यकाणां (₹5000 कोटि) निवेशाय अनुमतिः दत्ता। श्रीनायडू अवदत् यत् सर्वकारस्य लक्ष्यं भारतं ड्रोन-निर्माणस्य प्रौद्योगिक्याश्च क्षेत्रे विश्वस्य अग्रगण्यं देशं विधातुम् अस्ति।
कर्नूल-नगरे निर्मीयमाणं ‘ड्रोन सिटी’ देशस्य प्रथमा परियोजना भविष्यति: नागरविमाननमन्त्री के. राममोहननायडू
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
