वाणिज्यमन्त्री पीयूषगोयलः जर्मनेः हेस्सेन-राज्यस्य मन्त्रिभ्यां बोरिस-राइन-मैनफ्रेड-पेन्ट्ज़-महाभागाभ्यां सह अमिलत्
केन्द्रीय-वाणिज्य-उद्योगमन्त्री पीयूषगोयलः जर्मनीदेशस्य हेस्सेन-राज्यस्य मन्त्रिणा बोरिस-राइनेन तथा सङ्घीय-यूरोपीय-विषयाणां, सार्वाङ्गिक-प्रशासनिक-परिष्काराणां च मन्त्रिणा मैनफ्रेड-पेन्ट्जेन सह मेलनं कृतवान्। अस्मिन् उपवेशने जर्मनेः प्रमुखोद्योगानां प्रतिनिधिमण्डलमपि भागम् अगृह्णात्। श्रीगोयलः सामाजिक-माध्यम-सन्देशे प्रावोचत् यत् सम्भाषणकाले उभौ पक्षौ एआई (कृत्रिमबुद्धिः), स्वच्छोर्जा, अनुसन्धान-विकासौ, दत्तांश-केन्द्रम् (डेटा सेण्टर्), भेषजम् (फार्मा), रसायनम्, उत्पादनम्, फिनटेक्, दीप-टेक् तथा कौशलविकासस्य क्षेत्रेषु सहकारस्य नूतन-सम्भावनासु चर्चाम् अकुरुताम्। सः अकथयत् यत् भारत-हेस्सेनयोः मध्ये दृढं परस्पर-सहयोगं वर्धयन् भारतम् वाणिज्य-प्रौद्योगिकी-निवेश-नवीनोन्मेष-क्षेत्रेषु सहभागितां सुदृढां कर्तुं भारत-यूरोपीयसङ्घ-मुक्तव्यापार-अनुबन्धेन प्राप्तानां नूतनावसराणां लाभं स्वीकर्तुं सज्जम् अस्ति।
वाणिज्यमन्त्री पीयूषगोयलः जर्मनेः हेस्सेन-राज्यस्य मन्त्रिभ्यां बोरिस-राइन-मैनफ्रेड-पेन्ट्ज़-महाभागाभ्यां सह अमिलत्
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
