प्रत्येक-क्षेत्रीयभाषायै स्थापयिष्यते ‘उत्कृष्टता-केन्द्रम्’ (Centre of Excellence); परिणाम-आधारितं भविष्यति शिक्षक-प्रशिक्षणम्
भोजपुरी-मगही-मैथिली-अङ्गिका-प्रभृतीनां मातृभाषाणां संरक्षणाय संवर्धनाय च सर्वकारस्य महती योजना
शिक्षक-प्रशिक्षणे नूतना क्रान्तिः, व्याख्यातृभ्यः लप्स्यते प्रख्यातेभ्यः प्रबन्धन-संस्थानेभ्यः (IIM) प्रशिक्षणम्
हिमसंस्कृतवार्ता पाटलिपुत्रम् राघवनाथझा।
बिहारसर्वकारेण राज्यस्य क्षेत्रीयभाषाणां संरक्षणाय, संवर्धनाय, अनुसन्धानाय च संस्थागतं रूपं प्रदातुं महत्त्वपूर्णः ऐतिहासिकश्च निर्णयः गृहीतः। भोजपुरी, मगही, मैथिली, अङ्गिका इत्यादिसर्वासां प्रादेशिकभाषाणां कृते पृथक्-पृथक् उत्कृष्टता-केन्द्राणि (Center of Excellence) स्थापयिष्यन्ते। एतेषु केन्द्रेषु स्थानीयभाषाणाम् अध्ययने, उच्चस्तरीय-शोधकार्ये, संरक्षणे च विशेषं ध्यानं दास्यते। एषा सूचना शिक्षामन्त्रिणा मिथिलेशतिवारिणा भौमवासरे महेन्द्रू-स्थिते राज्य-शिक्षा-शोध-तथा-प्रशिक्षण-परिषदि (SCERT) आयोजिते समीक्षा-उपवेशने प्रदत्ता। उपवेशने शिक्षायाः गुणवत्ता, शिक्षक-प्रशिक्षणम्, मूल्याङ्कनम्, अङ्कीय-शिक्षा (डिजिटल-शिक्षा), संस्थागत-क्षमता-विकासः तथा छात्राणां सर्वाङ्गीण-विकास-सम्बद्धानां विषयाणां विस्तृता समीक्षा संजाता।
शिक्षामन्त्रिणा प्रतिपादितं यत् शिक्षक-प्रशिक्षणं केवलम् औपचारिकतामात्रं न स्थास्यति, अपि तु तत् पूर्णतया परिणाम-आधारितं विधास्यते। सः राज्य-शिक्षा-शोध-परिषदः प्राध्यापकेभ्यः लक्ष्यं निर्धार्य कार्य-दक्षतां (Smart Working) स्वीकर्तुं प्रशिक्षणस्य प्रभावस्य च मूल्याङ्कनं कर्तुं निर्दिष्टवान्। अनेन सह प्राध्यापकानां नेतृत्व-क्षमता-विकासार्थं तेभ्यः भारतीय-प्रबन्धन-संस्थान (IIM) सदृशेभ्यः प्रतिष्ठित-संस्थानेभ्यः प्रशिक्षणं प्रदास्यते।
राज्यस्य प्रायः षड्लक्ष-शिक्षकाणां क्षमता-निर्माणस्य उत्तरदायित्वं परिषदि वर्तते। मन्त्रिणा कथितं यत् संस्थायाः भूमिका केवलं प्रशिक्षण-आयोजने न समाप्यते, अपि तु गुणवत्तापूर्ण-शिक्षायां छात्राणां समग्र-विकासे च अस्याः महती भूमिका भविष्यति।
अङ्कीय-शिक्षायाः (डिजिटल-शिक्षायाः) संवर्धनाय परिषद्-कक्षतः शीघ्रमपि ‘बिहार-विद्यावाणी’ इति ध्वनिसम्प्रसारणस्य (Podcast) शुभारम्भः भविष्यति। अस्य माध्यमेन शिक्षकेभ्यः छात्रेभ्यश्च शैक्षणिक-सामग्री, नवाचाराः, प्रशिक्षण-सम्बद्धाः महत्त्वपूर्णाः सूचनाश्च प्राप्स्यन्ते।
विद्यालयेषु सामाजिक-सहभागितां वर्धयितुम् ‘अस्माकं विद्यालयः, अस्माकं स्वाभिमानम्’ इति जालपुटमपि (Portal) शीघ्रमपि उन्मोचयिष्यते। अनेन पूर्वतन-छात्राः स्व-पुरातन-विद्यालयेन सह संयोज्य विद्यालयानाम् अङ्गीकरणाय (गोद लेना) विकासकार्येषु साहाय्यार्थं च प्रेरिताः भविष्यन्ति।
उपवेशने शिक्षाविभागेन सह सन्धि-पत्रे हस्ताक्षरं कृतवतीभिः सप्तभिः स्वयंसेवी-संस्थाभिः सह प्रत्यक्ष-विचार-विमर्शस्य (Live Discussion) आयोजनस्य निर्णयः कृतः, येन तासां संस्थानाम् अनुभावानां लाभः शिक्षक-प्रशिक्षण-व्यवस्थायां प्राप्येत।
शिक्षामन्त्रिणा ज्ञापितं यत् परिषदः सर्वेषाम् एकादशानां (११) विभागानां समीक्षा कृता, प्रत्येकाय विभागाय च निर्धारित-लक्ष्यानुरूपं कार्यं सम्पादयितुं निर्देशाः प्रदत्ताः। एतासां योजनानाम् उपलब्धीनां च अग्रिमा विस्तृता समीक्षा दिसम्बर-मासे भविष्यति।
सर्वकारस्य अनेन प्रयासेन पञ्च मुख्याः प्राथमिकताः स्पष्टीभवन्ति — क्षेत्रीयभाषाणां संरक्षणम्, परिणाम-आधारितं शिक्षक-प्रशिक्षणम्, प्राध्यापकानां क्षमता-विकासः, अङ्कीय-शिक्षायाः विस्तारः तथा च विद्यालयानां विकासे समाजस्य पूर्वतन-छात्राणां च सक्रिया सहभागिता।
बिहारवार्ता-ः प्रत्येक-क्षेत्रीयभाषायै स्थापयिष्यते ‘उत्कृष्टता-केन्द्रम्’ (Centre of Excellence)
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
